पराजितान्पाण्डवेयांस्तु वाचो रौद्रा रूक्षा भाषते धार्तराष्ट्रः । गदाहस्तो भीमसेनोऽप्रमत्तो दुर्योधनं स्मारयिता हि काले
सुयोधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः । दुःशासनः पुष्कफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीपुत्रौ पुष्पफले समृद्धे मूलं त्वहं ब्रह्म च ब्राह्मणाश्च
वनं राजा धृतराष्ट्रः सपुत्रः सिंहा वने सञ्जय पाण्डवेयाः। सिंहाभिगुप्तं न वनं विनश्येत् सिंहो न नश्येत वनाभिगुप्तः
निर्वनो वध्यते सिंहो निःसिंहं वध्यते वनम्। तस्मात्सिंहो वनं रक्षेद्वनं सिंहं च पालयेत्
वनं राजा धृतराष्ट्रः वने व्याघ्राश्च पाण्डवाः। मा वनं छिन्धि सव्याघ्रं व्याघ्रा नेशुर्वनं विना
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्। तस्माद्व्याघ्रो वनं रक्षेद्वयं व्याघ्रं च पालयेत्
लताधर्मा धार्तराष्ट्राः सालाः सञ्जय पाण्डवाः। न लता वर्धते जातु महाद्रुममनाश्रिता
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः। यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः
स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः। योधाः समर्थास्तद्विद्वन्नाचक्षीथा यथातथम्
आमन्त्रये त्वां नरदेवदेव गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु। कच्चिन्न वाचा वृजिनं हि किंचि- दुच्चारितं मे मनसोऽभिषङ्गात्
जनार्दनं भीमसेनार्जुनौ च माद्रीसुतौ सात्यकिं चेकितानम् । आमन्त्र्य गच्छामि शिवं सुखं वः सौम्येन मां पश्यत चक्षुषा नृपाः
अनुज्ञातः सञ्जय स्वस्ति गच्छ न नः स्मरस्यप्रियं जातु विद्वन्। विद्मश्च त्वां ते च वयं च सर्वे शुद्धात्मानं मध्यगतं सभास्थम्
आप्तो दूतः सञ्जय सुप्रियोऽसि कल्याणवाक् शीलवांस्तृप्तिमांश्च। न मुह्येस्त्वं सञ्जय जातु मत्या न च क्रुद्ध्येरुच्यमानोऽपि तत्त्वम्
न मर्मगां जातु वक्ताऽसि रूक्षां नोपश्रुतिं कटुकां नोति शुष्काम्। धर्मारामामर्थवतीमहिंस्रा- मेतां वाचं तव जानीम सूत
त्वमेव नः प्रियतमोऽसि दूत इहागच्छेद्विदुरो वा द्वितीयः। अभीक्ष्णदृष्टोऽसि पुरातनस्त्वं धनञ्जयस्यात्मसमः सखाऽसि
इतो गत्वा सञ्जय क्षिप्रमेव उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः। विशुद्धवीर्याश्चरणोपपन्नाः कुले जाताः सर्वधर्मापपन्नाः
स्वाध्यायिनो ब्राह्मणा भिक्षवश्च तपस्विनो ये च नित्या वनेषु । अभिवाद्य तान्मद्वचनेन वृद्धां- स्तथैव तान्कुशलं तात पृच्छेः
पुरोहितं धृतराष्ट्रस्य राज्ञ- स्तथाचार्यानृत्विजो ये च तस्य। तांश्चैवत्वं सहितान्वै यथावत् सङ्गच्छेथाः कुशलेनैव सूत
अश्रोत्रिया ये च वसन्ति वृद्धा मनस्विनः शीलबलोपपन्नाः । आशंसन्तोऽस्माकमनुस्मरन्तो यथाशक्ति धर्ममात्रां चरन्तः
तेषां सर्वषां कुशलं स्म पृच्छेः
आचार्य इष्टो नयगो विधेयो वेदानभीप्सन्ब्रह्मचर्यं चचार। योऽस्त्रं चतुष्पात्पुनरेव चक्रे द्रोणः प्रसन्नोऽभिवाद्यस्त्वयासौ
अधीतविद्यश्चरणोपपन्नो योऽस्त्रं चतुष्पात्पुनरेव चक्रे। गन्धर्वपुत्रप्रतिमं तरस्विनं तमश्वत्थामानं कुशलं स्म पृच्छेः
शारद्वतस्यावसथं स्म गत्वा महारथस्यात्मविदां वरस्य। त्वं मामभीक्ष्णं परिकीर्तयन्वै कृपस्य पादौ सञ्जय पाणिना स्पृशेः
यस्मिन्शौर्यमानृशंस्यं तपश्च प्रज्ञा शीलं श्रुतरूपे धृतिश्च। पादौ गृहीत्वा कुरुसत्तमस्य भीष्मस्य मां तत्र निवेदयेथाः
प्रज्ञाचक्षुर्यः प्रणेता कुरूणां बहुश्रुतो वृद्धसेवी मनीषी। तस्मै राज्ञे स्थविरायाभिवाद्य आचक्षीथाः सञ्जय मामरोगम्
ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो मूर्खः शठः सञ्जय पापशीलः। यस्यापवादः पृथिवीं याति सर्वां सुयोधनं कुशलं तात पृच्छेः
भ्राता कनीयानपि तस्य मन्द- स्तथाशीलः सञ्जय सोपि शश्वत्। महेष्वासः शूरतमः कुरूणां दुःशासनः कुशलं तात वाच्यः
यस्य कामो वर्तते नित्यमेव नान्यः शमाद्भारतानामिति स्म। स बाह्लिकानामृषभो मनीषी पुनर्यथा माऽभिवदेत्प्रसन्नः
भूरिश्रवास्तात निपातयोधी महेष्वासो रथिनामुत्तमोऽग्र्यः । गत्वा स्म तं मद्वचनेन ब्रूयाः शल्यं तथा मद्वचनात्प्रतीतः