उताहो त्वं मन्यसे शाम्यमेव राज्ञां युद्धे वर्तते धर्मतन्त्रम्। अयुद्धे वा वर्तते धर्मतन्त्रं तथैव ते वाचमिमां श्रृणोमि
चातुर्वर्ण्यस्य प्रथमं संविभाग- मवेक्ष्य त्वं सञ्जय स्वं च कर्म। निशम्याथो पाण्डवानां च कर्म प्रशंस वा निन्द वा या मतिस्ते
अधीयीत ब्राह्मणो वै यजेत दद्यादीयात्तीर्थमुख्यानि चैव। अध्याप्रयेद्याजयेच्चापि याज्यान् प्रतिग्रहान्वा विहितान्प्रतीच्छेत्
अधीयीत क्षत्रियोऽथो यजेत दद्याद्धनं न तु याचेत किंचित्। न याजयेन्न तु चाध्यापयीत एवं स्मृतः क्षत्रधर्मः पुराणः
तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा। यज्ञैदिष्ट्वा सर्ववेदानधीत्य दारान्कृवा पुण्यकृदावसेद्गृहान्
स धर्मात्मा धर्ममधीत्य पुण्यं यदृच्छया व्रजति ब्रह्मलोकम्। वैश्योऽधीत्य कृषिगोरक्षपण्यै- र्वित्तं चिन्वन्पालयन्नप्रमत्तः
देवं स्मृतः शूद्रधर्मः पुराणः
एतान्राजा पालयन्नप्रमत्तो नियोजयन्सर्ववर्णान्स्वधर्मे। अकामात्मा समवृत्तिः प्रजासु नाधार्मिकाननुरुध्येत कामात्
श्रेयांस्तस्माद्यदि विद्येत कश्चि- दभिज्ञातः सर्वधर्मोपपन्नः । स तं द्रष्टुमनुशिष्यन्प्रजानां न चैतद्बुध्येदिति तस्मिन्नसाधुः
उत्पादितं वर्म शस्त्रं धनुश्च
तत्र पुण्यं दस्युवधेन लभ्यते सोऽयं दोषः कुरुभिस्तीव्ररूपः । अधर्मज्ञैर्धर्ममबुध्यमानैः प्रादुर्भूतः सञ्जय साधु तन्न
तत्र राजा धृतराष्ट्रः सपुत्रो धर्म्यं हरेत्पाण्डवानामकस्मात्। नावेक्षन्ते राजधर्मं पुराणं तदन्वयाः कुरवः सर्व एव
स्तेनो हरेद्यत्र धनं ह्यदृष्टः प्रसह्य वा यत्र हरेत दृष्टः । उभौ गर्ह्यौ भवतः सञ्जयैतौ किं वै पृथत्कं धृतराष्ट्रस्य पुत्रे
सोऽयं लोभान्मन्यते धर्ममेतं यमिच्छति क्रोधवशानुगामी। भागः पुनः पाण्डवानां निविष्ट- स्तं नः कस्मादाददीरन्परे वै
अस्मिन्पदे युध्यतां नो वधोऽपि श्लाघ्यः पित्र्यं पपराज्याद्विशिष्टम्। एतान्धर्मान्कौरवाणां पुराणा- नाचक्षीथाः सञ्जय राजमध्ये
एते मदान्मृत्युवशाभिपन्नाः समानीता धार्तराष्ट्रेण मूढाः। इदं पुनः कर्म पापीय एव सभामध्ये पश्य वत्तं कुरूणाम्
प्रियं भार्यां द्रौपदीं पाण्डवानां यशस्विनीं शीलवृत्तोपपन्नाम्। यदुपैक्षन्त कुरवो भीष्ममुख्याः कामानिगेनोपरुद्धां व्रजन्तीम्
तां चेत्तदा ते सकुमारवृद्धा अवारयिष्यन्कुरवः समेताः । मम प्रियं धृतराष्ट्रोऽकरिष्यत् पुत्राणां च कृतमस्याभविष्यत्
दुःशासनः प्रतिलोम्यान्निनाय सभामध्ये श्वशुराणां च कृष्णाम्। सा तत्र नीता करुणं व्यपेक्ष्य नान्यं क्षत्तुर्नाथमवाप किंचित्
कार्पण्यादेव सहितास्तत्र भूपा नाशक्नुवन्प्रतिवक्तुं सभायाम्। एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो धर्मबुद्ध्या प्रत्युवाचाल्पबुद्धिम्
अबुद्ध्वा त्वं धर्ममेतं सभाया- अथेच्छसे पाण्डवस्योपदेष्टुम् । कृष्णा त्वेतत्कर्म चकार शुद्धं सुदुष्करं तत्र सभां समेत्य
येन कृच्छ्रात्पाण्डवानुज्जहार तथाऽऽत्मानं नौरिव सागरौघात्। यत्राब्रवीत्सूतपुत्रः सभायां कृष्णां स्थितां श्वशुराणां समीपे
न ते गतिर्विद्यते याज्ञसेनि प्रपद्येथा धार्तराष्ट्रस्य वेश्म। पराजितास्ते पतयो न सन्ति पतिं चान्यं भामिनि त्वं वृणीष्व
यो बीभत्सोर्हृदये प्रोत आसी- दस्थि छिन्दन्मर्मघाती सुघोरः । कर्णाच्छरो वाङ्भयस्तिग्मतेजाः प्रतिष्ठितो हृदये फाल्गुनस्य
कृष्णाजिनानि परिधित्समानान् दुःशासनः कटुकान्यभ्यभाषत्। एते सर्वे षण्डतिला विनष्टाः क्षयं गता नरकं दीर्घकालम्
द्यूते वाक्यं गर्ह्यमेवं यथोक्तम्
स्वयं त्वहं प्रार्थये तत्र गन्तुं समाधातुं कार्यमेतद्विपन्नम् । ` जानासि त्वं धार्तराष्ट्रस्य मोहं दुरात्मनः पापवशानुगस्य
अहापयित्वा यदि पाण्डवार्थं शमं कुरूणामपि चेच्छकेयम्। पुण्यं च मे स्याच्चरितं महोदयं मुच्येरंश्च कुरवो मृत्युपाशात्
अपि मे वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम् । अवेक्षेरन्धार्तराष्ट्राः समक्षं मां च प्राप्तं कुरवः पूजयेयुः
अतोऽन्यथा रथिना फाल्गुनेन भीमेन चैवाहवदंशितेन। बलोत्सिक्तान्धार्तराष्ट्रांश्च विद्धि प्रदह्यमानान्कर्मणा स्वेन पापान्