अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह। प्रसादं कुरु मे ब्रह्मञ्जरेयं न विशेच्च माम्
नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप। जरां त्वेतां त्वमन्यस्मिन्संक्रामय यदीच्छसि
राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा। यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम्
संक्रामयिष्यसि जरां येथेष्टं नहुषात्मज। मामनुध्याय भावेन न च पापमवाप्स्यसि
वयो दास्यति ते पुत्रो यः स राजा भविष्यति। आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च
जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि। पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः
जरावली च मां तात पलितानि च पर्यगुः। काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह। यौवनेन त्वदीयेन चरेयं विषयानहम्
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम्। दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह
जरायां बहवो दोषाः पानभोजनकारिताः। तस्माज्जरां न ते राजन्ग्रहीष्य इति मे मतिः
सितश्मश्रुर्निरानन्दो जरया शिथिलीकृतः। वलीसङ्गतगात्रस्तु दुर्दर्शो दुर्बलः कृशः
अशक्तः कार्यकरणे परिभूतः स यौवतैः। सहोपजीविभिश्चैव तां जरां नाभिकामये
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप। जरां ग्रहीतुं धर्मज्ञ तस्मादन्यं वृणीष्व वै
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। तस्मादराज्यभाक्तात प्रजा तव भविष्यति
प्रत्याख्यातस्तु राजा स तुर्वसुं प्रत्युवाच ह।' तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह। यौवनेन चरेयं वै विषयांस्तव पुत्रक
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्। स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह
न कामये जरां तात कामभोगप्रणाशिनीम्। बलरूपान्तकरणीं बुद्धिप्राणप्रणाशिनीम्
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति
संकीर्णाचारधर्मेषु प्रतिलोमचरेषु च। पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च। पशुधर्मेषु पापेषु म्लेच्छेषु त्वं भविष्यसि
एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः। शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत्
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्। जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्। स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम्। वाग्भङ्गश्चास्य भवति तां जरां नाभिकामये
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित्
यत्राश्वरथमुख्यानामश्वानां स्याद्गतं न च। हस्तिनां पीठकानां च गर्दभानां तथैव च
बस्तानां च गवां चैव शिबिकायास्तथैव च। उडुपप्लवसंतारो यत्र नित्यं भविष्यति
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह। एकं वर्षसहस्रं तु चरेयं यौवनेन ते
जीर्णः शिशुवदादत्ते कालेऽन्नमशुचिर्यथा। न जुहोति च कालेऽग्निं तां जरां नाभिकामये
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। जरादोषस्त्वया प्रोक्तस्तस्मात्त्वं प्रतिलप्स्यसे