अतन्द्रिता भारमिमं महान्तं बिभर्ति देवी पृथिवी वलेन। अतन्द्रिताः शीघ्रसपो वहन्ति सन्तर्पयन्त्यः सर्वभूतानि नद्यः
अतन्द्रितो वर्षति भूरितेजाः सन्नादयन्नन्तरिक्षं दिशश्च। अतन्द्रितो ब्रह्मचर्यं चचार श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम्
हित्वा सुखं मनसश्च प्रियाणि तेन शक्रः कर्मणा श्रैष्ठ्यमाप। सत्यं धर्मं पालयन्नप्रमत्तो दमं तितिक्षां समतां प्रियं च
एतानि सर्वाण्युपसेवमानो यो देवराज्यं मघवान्प्राप मुख्यम्। बृहस्पतिर्ब्रह्मचर्यं चचार समीहितः संशिमात्मा यथावत्
हित्वा सुख प्रतिरुध्येन्द्रियाणि तेन देवानामगमद्गौरवं सः। तथा नक्षत्राणि कर्मणाऽमुत्र भान्ति रुद्रादित्या वसवोऽथापि विश्वे
यमो राजा वैश्रवणः कुबेरो गन्धर्वयक्षाप्सरसश्च सूत। ब्रह्मविद्यां ब्रह्मचर्यं क्रियां च निपेवमाणा ऋषयोऽमुत्र भान्ति
जानन्निमं सर्वलोकस्य धर्मं विप्रेन्द्राणां क्षत्रियाणां विशां च। स कस्मात्त्वं जानतां ज्ञानवान्सन् व्यायच्छसेक सञ्जय कौरवार्थे
आम्नायेषु नित्यसंयोगमस्य तथाऽश्वमेधे राजसूये च विद्धि। संयुज्यते धनुपा वर्मणा च हस्त्यश्वाद्यै रथशस्त्रैश्च भूयः
ते चेदिमे कौरवाणाम्रुपाय- मवगच्छेयुवधेनैव पार्थाः। धर्मत्राणं पुण्यमेषां कृतं स्या- दार्ये वृत्ते भीमसेनं निगृह्य
ते चेत्पित्र्ये कर्मणि वर्तमाना आपद्येरन्दिष्टवशेन मृत्युम्। यथाशक्त्यापूरयन्तः स्वकर्म तदप्येषां निधनं स्यात्प्रशस्तम्
उताहो त्वं मन्यसे शाम्यमेव राज्ञां युद्धे वर्तते धर्मतन्त्रम्। अयुद्धे वा वर्तते धर्मतन्त्रं तथैव ते वाचमिमां श्रृणोमि
चातुर्वर्ण्यस्य प्रथमं संविभाग- मवेक्ष्य त्वं सञ्जय स्वं च कर्म। निशम्याथो पाण्डवानां च कर्म प्रशंस वा निन्द वा या मतिस्ते
अधीयीत ब्राह्मणो वै यजेत दद्यादीयात्तीर्थमुख्यानि चैव। अध्याप्रयेद्याजयेच्चापि याज्यान् प्रतिग्रहान्वा विहितान्प्रतीच्छेत्
अधीयीत क्षत्रियोऽथो यजेत दद्याद्धनं न तु याचेत किंचित्। न याजयेन्न तु चाध्यापयीत एवं स्मृतः क्षत्रधर्मः पुराणः
तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा। यज्ञैदिष्ट्वा सर्ववेदानधीत्य दारान्कृवा पुण्यकृदावसेद्गृहान्
स धर्मात्मा धर्ममधीत्य पुण्यं यदृच्छया व्रजति ब्रह्मलोकम्। वैश्योऽधीत्य कृषिगोरक्षपण्यै- र्वित्तं चिन्वन्पालयन्नप्रमत्तः
देवं स्मृतः शूद्रधर्मः पुराणः
एतान्राजा पालयन्नप्रमत्तो नियोजयन्सर्ववर्णान्स्वधर्मे। अकामात्मा समवृत्तिः प्रजासु नाधार्मिकाननुरुध्येत कामात्
श्रेयांस्तस्माद्यदि विद्येत कश्चि- दभिज्ञातः सर्वधर्मोपपन्नः । स तं द्रष्टुमनुशिष्यन्प्रजानां न चैतद्बुध्येदिति तस्मिन्नसाधुः
उत्पादितं वर्म शस्त्रं धनुश्च
तत्र पुण्यं दस्युवधेन लभ्यते सोऽयं दोषः कुरुभिस्तीव्ररूपः । अधर्मज्ञैर्धर्ममबुध्यमानैः प्रादुर्भूतः सञ्जय साधु तन्न
तत्र राजा धृतराष्ट्रः सपुत्रो धर्म्यं हरेत्पाण्डवानामकस्मात्। नावेक्षन्ते राजधर्मं पुराणं तदन्वयाः कुरवः सर्व एव
स्तेनो हरेद्यत्र धनं ह्यदृष्टः प्रसह्य वा यत्र हरेत दृष्टः । उभौ गर्ह्यौ भवतः सञ्जयैतौ किं वै पृथत्कं धृतराष्ट्रस्य पुत्रे
सोऽयं लोभान्मन्यते धर्ममेतं यमिच्छति क्रोधवशानुगामी। भागः पुनः पाण्डवानां निविष्ट- स्तं नः कस्मादाददीरन्परे वै
अस्मिन्पदे युध्यतां नो वधोऽपि श्लाघ्यः पित्र्यं पपराज्याद्विशिष्टम्। एतान्धर्मान्कौरवाणां पुराणा- नाचक्षीथाः सञ्जय राजमध्ये
एते मदान्मृत्युवशाभिपन्नाः समानीता धार्तराष्ट्रेण मूढाः। इदं पुनः कर्म पापीय एव सभामध्ये पश्य वत्तं कुरूणाम्
प्रियं भार्यां द्रौपदीं पाण्डवानां यशस्विनीं शीलवृत्तोपपन्नाम्। यदुपैक्षन्त कुरवो भीष्ममुख्याः कामानिगेनोपरुद्धां व्रजन्तीम्
तां चेत्तदा ते सकुमारवृद्धा अवारयिष्यन्कुरवः समेताः । मम प्रियं धृतराष्ट्रोऽकरिष्यत् पुत्राणां च कृतमस्याभविष्यत्
दुःशासनः प्रतिलोम्यान्निनाय सभामध्ये श्वशुराणां च कृष्णाम्। सा तत्र नीता करुणं व्यपेक्ष्य नान्यं क्षत्तुर्नाथमवाप किंचित्
कार्पण्यादेव सहितास्तत्र भूपा नाशक्नुवन्प्रतिवक्तुं सभायाम्। एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो धर्मबुद्ध्या प्रत्युवाचाल्पबुद्धिम्