इह क्षेत्रे क्रियते पार्थ कार्यं न वै किंचित्क्रियते प्रेत्य कार्यम् । कृतं त्वया पारलोक्यं च कर्म पुण्यं महत्सद्भिरतिप्रशस्तम्
जहाति मृत्युं च जरां भयं च न क्षुत्पिपासे मनसोऽप्रियाणि। न कर्तव्यं विद्यते तत्र किंचि- दन्यत्र वै चेन्द्रियप्रीणनाद्धि
एवंरूपं कर्मफलं नरेन्द्र मातापित्रोर्हृदयस्याप्रियेण। त्यज क्रोधं पाण्डव हर्षजं च लोकावुभौ मा प्रहासीश्चिराया
अन्तं गत्वा कर्मणां या प्रशंसा सत्यं दमं चार्जवमानृशंस्यम् । अश्वमेधं राजसूयं तथेष्ट्वा पापस्यान्तं कर्मणो मा पुनर्गाः
तच्चेदेवं द्वेषरूपेण पार्थाः करिष्यध्वं कर्म पापं चिराय। निवसध्वं वर्षपूगान्वनेषु दुःखं वासं पाण्डवा धर्म एव
प्रव्रज्यया यातयित्वा पुरस्ता- दात्माधीनं यद्बलं ते तदाऽसीत्। नित्यं च वश्याः सचिवास्तवेमे जनार्दनो युयुधाश्च वीरः
मत्स्यो राजा रुक्मरथः सपुत्रः प्रहारिभिः सहपुत्रैर्विराटः। राजानस्ते ये विजिताः पुरस्ता- त्त्वामेव ते संश्रयेयुः समस्ताः
महासहायः प्रतपन्बलस्थः पुरस्कृतो वासुदेवार्जुनाभ्याम्। वरान्हनिष्यन्द्विषतो रङ्गमध्ये व्यनेष्यथा धार्तराष्ट्रस्य दर्पम्
बलं कस्माद्वर्धयित्वा परस्य निजान्कस्मात्कर्शयित्वा सहायान्। निरुष्य कस्माद्वर्षपूगान्वनेषु युयुत्ससे पाण्डव हीनकाले
अप्राज्ञो वा पाण्डव युद्ध्यमानो- ऽधर्मज्ञो वा भूतिमथोऽभ्युपैति। प्रज्ञावान्वा बुद्ध्यमानोऽपि धर्मं संस्तम्भाद्वा सोऽपि भूतेरपैति
नाधर्मे ते धीयते पार्थ बुद्धि- र्न संरम्भात्कर्म चकर्थ पापम् । आत्थ किं तत्कारणं यस्य हेतोः प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम्
अव्याधिजं कटुकं शीर्षरोगि यशोमुषं पापफलोदयं वा। सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य
पापानुबन्धं को नु तं कामयेत क्षमैव ते ज्यायसी नोत भोगाः । यत्र भीष्मः शान्तनवो हतः स्या- द्यत्र द्रोणः सहपुत्रो हतः स्यात्
कृपः शल्यः सौमदत्तिर्विकर्णो विविंशतिः कर्णदुर्योधनौ च। एतान्हत्वा कीदृशं तत्सुखं स्या- द्यद्विन्देथास्तदनुब्रूहि पार्थ
लब्ध्वाऽपीमां पृथिवीं सागरान्तां जरामृत्यू नैव हि त्वं प्रजह्याः। प्रियाप्रिये सुखदुःखे च राज- न्नैवं विद्वान्नैव युद्धं कुरु त्वम्
अमात्यानां यदि कामस्य हेतो- रेवं युक्तं कर्म चिकीर्षसि त्वम्। अपक्रमेः स्वं प्रदायैव तेषां मागास्त्वं वै देवयानात्पथोऽद्य
असंशयं सञ्जय सत्यमेत- द्धर्मो वरः कर्मणां यत्त्वमात्थ । ज्ञात्वा तु मां सञ्जय गर्हयेस्त्वं यदि धर्मं यद्यधर्मं चरामि
यत्राधर्मो धर्मरूपाणि धत्ते धर्मः कृत्स्नो दृश्यतोऽधर्मरूपः। बिभ्रद्धर्मो धर्मरूपं तथा च विद्वांसस्तं संप्रपश्यन्ति बुद्ध्या
एवं तथैवापदि लिङ्गमेत- द्धर्माधर्मौ नित्यवृत्ती भजेताम्। आद्यं लिङ्गं यस्य तस्य प्रमाण- मापद्धर्मं सञ्जय तं निबोध
लुप्तायां तु प्रकृतौ येन कर्म निष्पादयेत्तत्परीप्सेद्विहीनः। प्रकृतिस्थश्चापदि वर्तमान उभौ गर्ह्यौ भवतः सञ्जयैतौ
अविनाशमिच्छतां ब्राह्मणानां प्रायश्चित्तं विहितं यद्विधात्रा। संपश्येथाः कर्मसु वर्तमानान् विकर्मस्थान्सञ्जय गर्हयेस्त्वम्
मनीषिणां सत्त्विच्छेदनाय विधियते सत्सु वृत्तिः सदैव। अब्राह्मणाः सन्ति तु ये न वैद्याः सर्वोत्सङ्गं साधु मन्येत तेभ्यः
तदध्वानः पितरो ये च पूर्वे पितामहा ये च तेभ्यः परेऽन्ये। यज्ञैषिणो ये च हि कर्म कुर्यु- र्नान्यं ततो नास्तिकोऽस्मीति मन्ये
यत्किंचनेदं वित्तमस्यां पृथिव्यां यद्देवानां त्रिदशानां परं यत्। प्राजापत्यं त्रिदिवं ब्रह्मलोकं नाधर्मतः सञ्जय कामयेयम्
धर्मेश्वरः कुशलो नीतिमांश्चा- प्युपासिता ब्राह्मणानां मनीषी। नानाविधांश्चैव महाबलांश्च राजन्यभोजाननुशास्ति कृष्णः
यदि ह्यहं विसृजत्साम गर्ह्यो नियुध्यमानो यदि जह्यां स्वधर्मम् । महायशाः केशवस्तद्ब्रवीतु वासुदेवस्तूभयोरर्थकामः
शैनेयोऽयं चेदयश्चान्धकाश्च वार्ष्णेयभोजाः कुकुराः सृञ्जयाश्च । उपासीना वासुदेवस्य बुद्धिं निगृह्य शत्रून्सुहृदो नन्दयन्ति
वृष्ण्यन्धका ह्युग्रसेनादयो वै कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः । मनस्विनः सत्यपरायणाश्च महाबला यादवा भोगवन्तः
काश्यो बभ्रुः श्रियमुत्तमां गतो लब्ध्वा कृष्णं भ्रातरमीशितारम् । यस्मै कामान्वर्षति वासुदेवो ग्रीष्मात्यये मेघ इव प्रजाऽभ्यः
ईदृशोऽयं केशवस्तात विद्वान् विद्धि ह्येनं कर्मणां निश्चयज्ञम्। प्रियश्च नः साधुतमश्च कृष्णो नातिक्रामे वचनं केशवस्य