प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा लालप्यते सञ्जय कस्य हेतोः । प्रगृह्य दुर्बुद्धिमनार्जवे रतं पुत्रं मन्दं मूढममन्त्रिणं तु
अनाप्तवच्चाप्ततमस्य वाचः सुयोधनो विदुरस्यावमत्य। सुतस्य राजा धृतराष्ट्रः प्रियैषी संबुध्यमानो विशतेऽधर्ममेव
मेधाविनं ह्यर्थकामं कुरूणां बहुश्रुतं वाग्मिनं शीलवन्तम् । स तं राजा धृतराष्ट्रः कुरुभ्यो न सस्मार विदुरं पुत्रकाम्यात्
मानघ्नस्यासौ मानकामस्य चेर्षोः संरम्भिणश्चार्थधर्मातिगस्य। दुर्भाषिणो मन्युवशानुगस्य कामात्मनो दौर्हृदैर्भावितस्य
अनेयस्याश्रेयसो दीर्घमन्यो- र्मित्रद्रुहः सञ्जय पापबुद्धेः। सुतस्य राजा धृतराष्ट्रः प्रियैषी प्रपश्यमानः प्राजहाद्धर्मकामौ
तदैव मे सञ्जय दीव्यतोऽभू- न्मतिः कुरूणामागतः स्यादभावः । काव्यां वाचं विदुरो भाषमाणो न विन्दते यद्धार्तराष्ट्रात्प्रशंसाम्
क्षत्तुर्यदा नान्ववर्तन्त बुद्धिं कृच्छ्रं कुरून्सूत तदाऽभ्याजगाम। यावत्प्रज्ञामन्ववर्तन्त तस्य तावत्तेषां राष्ट्रवृद्धिर्बभूव
तदर्थलुब्धस्य निबोध मेऽद्य ये मन्त्रिणो धार्तराष्ट्रस्य सूत। दुःशासनः शकुनिः सूतपुत्रो गावल्गणे पश्य संमोहमस्य
सोऽहं न पश्यामि परीक्षमाणः कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् । आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः प्रव्राजिते विदुरे दीर्घदृष्टौ
आशंसते वै धृतराष्ट्रः सपुत्रो महाराज्यमसपत्नं पृथिव्याम्। तस्मिञ्शमः केवलं नोपलभ्यः सर्वं स्वकं मद्गते मन्यतेऽर्थम्
यत्तत्कर्णो मन्यते पारणीयं युद्धे गृहीतायुधमर्जुनं वै । आसंश्च युद्धानि पुरा महान्ति कथं कर्णो नाभवद्द्वीप एषाम्
कर्णश्च जानाति सुयोधनश्च द्रोणश्च जानाति पितामहश्च। अन्ये च ये कुग्वस्तत्र सन्ति यथाऽर्जुनान्नाम्त्यपरो धनुर्धरः
जानन्त्येतन्कुरवः सर्व एव ये चाप्यन्ये भूमिपालाः समेताः। दुर्योधने राज्यमिहाभवद्यथा अरिन्दमे फाल्गुनेऽविद्यमाने
तेनानुबन्धं मन्यते धार्तराष्ट्रः शक्यं हर्तुं पाण्डवानां ममत्वम् । किरीटिना तालमात्रायुधेन तद्वेदिना संयुगं तत्र गत्वा
गाण्डीवविष्फारितशब्दमात्रं श्रुत्वैव ते धार्तराष्ट्रा म्रियन्ते। क्रुद्धं न चेदीक्षते भीमसेनं सुयोधनो मन्यते सिद्धमर्थम्
इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तु- मैश्वर्यं नो जीवति भीमसेने। धनञ्जये नकुले चैव सूत तथा वीरे सहदेवेऽसहिष्णौ
सचेदेतां प्रतिपद्येत बुद्धिं वृद्धो राजा सह पुत्रेण सूत। एवं रणे पाण्डवकोपदग्धा न नश्येयुः सञ्जय धार्तराष्ट्राः
जानामि त्वं क्लेशमस्मासु वृत्तं त्वां पूजयन्मञ्जयाहं क्षमेयम्। वच्चास्माकं कौरवैर्भृतपूर्वं या नो वृत्तिधार्तराष्ट्रे तदाऽऽसीत्
अद्यापि सा तत्र तथैव वर्ततां यान्ति गमिष्यामि यथा न्वमात्थ । द्वन्द्राप्रव्ये भवतु ममैव राज्यं सूयोधनो यच्छतु भाग्नाग्र्यः
धर्मनित्या पाण्डव ते विचेष्टा लोके श्रुता दृश्यते चापि पार्थ । महाश्रावं जीवित चाप्यनित्यं संपश्य त्वं पाण्डव मा व्यनीनशः
नचेद्भागं कुरवोऽन्यत्र युद्धा- त्प्रयच्छेरंस्तुभ्यमजातशत्रो। भैक्षचर्यामन्धकवृष्णिराज्ये श्रेयो मन्ये न तु युद्धेन राज्यम्
अल्पकालं जीवितं यन्मनुष्ये महास्रावं नित्यदुःखं चलं च। भूयश्च तद्यशसो नानुरूपं तस्मात्पापं पाण्डव मा कृथास्त्वम्
कामा मनुष्यं प्रसजन्त एते धर्मस्य ये विघ्नमूलं नरेन्द्र । पूर्वं नरस्तान्मतिमान्प्रणिघ्नन् लोके प्रशंसां लभतेऽनवद्याम्
निबन्धनी ह्यर्थतृष्णेह पार्थ तामिच्छतां बाध्यते धर्म एव। धर्मं तु यः प्रणृणीते स बुद्धः कामे गृध्नो हीयतेऽर्थानुरोधात्
धर्मं कृत्वा कर्मणां तात मुख्यं महाप्रतापः सवितेव भाति। हीनो हि धर्मेण महीमपीमां लब्ध्वा नरः सीदति पापबुद्धिः
वेदोऽधीतश्चरितं ब्रह्मचर्यं यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् । परं स्थानं मन्यमानेन भूय आत्मा दत्तो वर्षपूगं सुखेभ्यः
सुखप्रिये सेवमानोऽतिवेलं योगाभ्यासे यो न करोति कर्म। वित्तक्षये हीनसुखोऽतिवेलं दुःखं शेते कामवेगप्रणुन्नः
एवं पुनर्ब्रह्मचर्याऽप्रसक्तो हित्वा धर्मं यः प्रकरोत्यधर्मम्। अश्रद्दधत्परलोकाय मूढो हित्वा देहं तप्यते प्रेत्य मन्दः
न कर्मणां विप्रणाशोऽस्त्यमुत्र पुण्यानां वाऽप्यथवा पापकानाम् । पूर्वं कर्तुर्गच्छति पुण्यपापं पश्चात्त्वेनमनुयात्येव कर्ता
न्यायोपेतं ब्राह्मणेभ्योऽथ दत्तं श्रद्धापूतं गन्धरसोपपन्नम् । अन्वाहार्येषूत्तमदक्षिणेषु तथारूपं कर्म विख्यायते ते