न युज्यते कर्म युष्मासु हीनं सत्वं हि वस्तादृशं भीमसेनाः । उद्भासते ह्यञ्जनबिन्दुवत्त- च्छुभ्रे वस्त्रे यद्भवेत्किल्बिषं वः
सर्वक्षयो दृश्यते यत्र कृत्स्नः पापोदयो भावसंस्थः कुरूणाम्। कस्तत्र कुर्याञ्जातु कर्म प्रजानन् पराजयो यत्र समो जयश्च
ते वै धन्या यैः कृतं ज्ञातिकार्यं ते वै पुत्राः सुहृदो बान्धवाश्च। उपक्रुष्टं जीवितं सन्त्यजेयु- र्यतः कुरूणां नियतो वै भवः स्यात्
ते चेत्कुरूननुशिष्याथ पार्था निर्णीय सर्वान्द्विषतो निगृह्य। समं वस्तज्जीवितं मृत्युन स्या- द्यज्जीवध्वं ज्ञातिवधेन साधु
को ह्येव युष्मान्सह केशवेन सचेकितानान्पार्षतबाहुगुप्तान्। ससात्यकीन्विषहेत प्रजेतुं लब्ध्वाऽपि देवान्सचिवान्सहेन्द्रान्
को वा कुरून्द्रोणभीष्माभिगुप्ता- नश्वत्थाम्ना शल्यकृपादिभिश्च। रणे विजेतुं विषहेत राजन् राधेयगुप्तान्सह भूमिपालैः
महद्बलं धार्तराष्ट्रस्य राज्ञः को वै शक्तो हन्तुमक्षीयमाणः । सोऽहं जये चैव पराजये च निःश्रेयसं नाधिगच्छामि किंचित्
कथं हि नीचा इव दौष्कुलेया निर्धर्मार्थं कर्म कुर्युश्च पार्थाः । सोऽहं प्रसाद्य प्रणतो वासुदेवं पञ्चालानामधिपं चैव वृद्धम्
कृताञ्जलिः शरणं वः प्रपद्ये कथं स्वस्ति स्यात्कुरुसृञ्जयानाम्। न ह्येवमेवं वचनं वासुदेवो धनञ्जयो वा जातु किंचिन्न कुर्यात्
प्रणान्दद्याद्याचमानः कुतोऽन्य- देतद्विद्वन्साधनार्थं ब्रवीमि । एतद्राज्ञो भीष्मपुरोगमस्य मतं यद्वः शान्तिरिहोत्तमा स्यात्
कां नु वाचं सञ्जय मे शृणोषि। युद्धैषिणीं येन युद्धाद्बिभेषि । अयुद्धं वै तात युद्धाद्गरीयः कस्तल्लब्ध्वा जातु युद्ध्येत सूत
अकुर्वतश्चेत्पुरुषस्य सञ्जय सिद्ध्येत्सङ्कल्पो मनसा यं यमिच्छेत्। न कर्म कुर्याद्विदितं ममैत- दन्यत्र युद्धाद्बहु यल्लघीयः
कुतो युद्धं जातु नरोऽवगच्छे- त्को देवशप्तो हि वृणीत युद्धम्। सुखैषिणः कर्म कुर्वन्ति पार्था धर्मादहीनं यच्च लोकस्य पथ्यम्
धर्मोदयं सुखमाशंसमानाः कृच्छ्रोपायं तत्त्वतः कर्म दुःखम्। सुखं प्रेप्सुर्विजिघांसुश्च दुःखं कर्मारभेद्यच्च धर्मानपेतम्
क इन्द्रियाणां प्रीतिवशानुरानां कर्माभिज्ञः स्वशरीरं दुनोति। यया प्रमुक्तो न करोति दुःखं तृष्णां त्यजेत्सर्वधर्मादपेताम्
सहास्माभिर्धृतराष्ट्रस्य राज्ञः
कथं त्वस्मान्संप्रणुदेत्कुरुभ्यः
अत्रैव स्यादवुधस्यैव कामः। प्रायः शरीरे हृदयं दुनोति
स्वयं राजा विषमस्थः परेषु सामर्थ्यमन्विच्छति तन्न साधु। यथाऽऽत्मनः पश्यति वृत्तमेव तथा परेतामपि सोऽभ्युपैति
आसन्नमग्निं तु निदाघकाले गम्भीरकक्षे गहने विसृज्य। यथा विवृद्धं वायुवशेन शोचे- त्क्षेमं मुमुक्षुः शिशिरव्यपाये
प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा लालप्यते सञ्जय कस्य हेतोः । प्रगृह्य दुर्बुद्धिमनार्जवे रतं पुत्रं मन्दं मूढममन्त्रिणं तु
अनाप्तवच्चाप्ततमस्य वाचः सुयोधनो विदुरस्यावमत्य। सुतस्य राजा धृतराष्ट्रः प्रियैषी संबुध्यमानो विशतेऽधर्ममेव
मेधाविनं ह्यर्थकामं कुरूणां बहुश्रुतं वाग्मिनं शीलवन्तम् । स तं राजा धृतराष्ट्रः कुरुभ्यो न सस्मार विदुरं पुत्रकाम्यात्
मानघ्नस्यासौ मानकामस्य चेर्षोः संरम्भिणश्चार्थधर्मातिगस्य। दुर्भाषिणो मन्युवशानुगस्य कामात्मनो दौर्हृदैर्भावितस्य
अनेयस्याश्रेयसो दीर्घमन्यो- र्मित्रद्रुहः सञ्जय पापबुद्धेः। सुतस्य राजा धृतराष्ट्रः प्रियैषी प्रपश्यमानः प्राजहाद्धर्मकामौ
तदैव मे सञ्जय दीव्यतोऽभू- न्मतिः कुरूणामागतः स्यादभावः । काव्यां वाचं विदुरो भाषमाणो न विन्दते यद्धार्तराष्ट्रात्प्रशंसाम्
क्षत्तुर्यदा नान्ववर्तन्त बुद्धिं कृच्छ्रं कुरून्सूत तदाऽभ्याजगाम। यावत्प्रज्ञामन्ववर्तन्त तस्य तावत्तेषां राष्ट्रवृद्धिर्बभूव
तदर्थलुब्धस्य निबोध मेऽद्य ये मन्त्रिणो धार्तराष्ट्रस्य सूत। दुःशासनः शकुनिः सूतपुत्रो गावल्गणे पश्य संमोहमस्य
सोऽहं न पश्यामि परीक्षमाणः कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् । आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः प्रव्राजिते विदुरे दीर्घदृष्टौ
आशंसते वै धृतराष्ट्रः सपुत्रो महाराज्यमसपत्नं पृथिव्याम्। तस्मिञ्शमः केवलं नोपलभ्यः सर्वं स्वकं मद्गते मन्यतेऽर्थम्