माद्रीसुतौ चापि तथाऽऽजिमध्ये सर्वा दिशः संपतन्तौ स्मरन्ति। सेनां वर्षन्तौ शग्वैपरजमं महारथौ समरे दुष्प्रकम्पौ
समीकुर्याः प्रज्ञयाऽजातशत्रो
न कामार्थं सन्त्यजेयुर्हि धर्मं पाण्डोः सुताः सर्व एवेन्द्रकल्पाः । त्वमेवैतत्प्रज्ञयाऽजातशत्रो समीकुर्या येन शर्माप्नुयुस्ते
धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च ये चाप्यन्ते सन्निविष्टा नरेन्द्राः । यन्मां ब्रवीद्धृतराष्ट्रो निशाया- मजातशत्रो वचनं पिता ते
सहामात्यः सहपुत्रश्च राजन् समेत्य तां वाचमिमां निबोध
समागताः पाण्डवाः सृञ्जयाश्च जनार्दनो युयुधानो विराटः। यत्ते वाक्यं धृतराष्ट्रानुशिष्टं गावल्गणे ब्रूहि तत्सूतपुत्र
अजातशत्रुं च वृकोदरं च धनञ्जयं माद्रवतीसुतौ च। आमन्त्रये वासुदेवं च शौरिं युयुधानं चेकितानं विराटम्
पञ्चालानामधिपं चैव वृद्धं धृष्टद्युम्नं पार्षतं याज्ञसेनिम् । सर्वे वाचं शृणुतेमां मदीयां वक्ष्यामि यां भूतिमिच्छन्कुरूणाम्
शमं राजा धृतराष्ट्रोऽभिनन्द- न्नयोजयत्त्वरमाणो रथं मे। सभ्रातृपुत्रस्वजनस्य राज्ञ- स्तद्रोचतां पाण्डवानां शमोऽस्तु
सर्वैर्धर्मैः समुपेतास्तु पार्थाः संस्थानेन मार्दनेवार्जवेन। जाताः कुले ह्यनृशंसा वदान्या हीनिषेवाः कर्मणां निश्चयज्ञाः
न युज्यते कर्म युष्मासु हीनं सत्वं हि वस्तादृशं भीमसेनाः । उद्भासते ह्यञ्जनबिन्दुवत्त- च्छुभ्रे वस्त्रे यद्भवेत्किल्बिषं वः
सर्वक्षयो दृश्यते यत्र कृत्स्नः पापोदयो भावसंस्थः कुरूणाम्। कस्तत्र कुर्याञ्जातु कर्म प्रजानन् पराजयो यत्र समो जयश्च
ते वै धन्या यैः कृतं ज्ञातिकार्यं ते वै पुत्राः सुहृदो बान्धवाश्च। उपक्रुष्टं जीवितं सन्त्यजेयु- र्यतः कुरूणां नियतो वै भवः स्यात्
ते चेत्कुरूननुशिष्याथ पार्था निर्णीय सर्वान्द्विषतो निगृह्य। समं वस्तज्जीवितं मृत्युन स्या- द्यज्जीवध्वं ज्ञातिवधेन साधु
को ह्येव युष्मान्सह केशवेन सचेकितानान्पार्षतबाहुगुप्तान्। ससात्यकीन्विषहेत प्रजेतुं लब्ध्वाऽपि देवान्सचिवान्सहेन्द्रान्
को वा कुरून्द्रोणभीष्माभिगुप्ता- नश्वत्थाम्ना शल्यकृपादिभिश्च। रणे विजेतुं विषहेत राजन् राधेयगुप्तान्सह भूमिपालैः
महद्बलं धार्तराष्ट्रस्य राज्ञः को वै शक्तो हन्तुमक्षीयमाणः । सोऽहं जये चैव पराजये च निःश्रेयसं नाधिगच्छामि किंचित्
कथं हि नीचा इव दौष्कुलेया निर्धर्मार्थं कर्म कुर्युश्च पार्थाः । सोऽहं प्रसाद्य प्रणतो वासुदेवं पञ्चालानामधिपं चैव वृद्धम्
कृताञ्जलिः शरणं वः प्रपद्ये कथं स्वस्ति स्यात्कुरुसृञ्जयानाम्। न ह्येवमेवं वचनं वासुदेवो धनञ्जयो वा जातु किंचिन्न कुर्यात्
प्रणान्दद्याद्याचमानः कुतोऽन्य- देतद्विद्वन्साधनार्थं ब्रवीमि । एतद्राज्ञो भीष्मपुरोगमस्य मतं यद्वः शान्तिरिहोत्तमा स्यात्
कां नु वाचं सञ्जय मे शृणोषि। युद्धैषिणीं येन युद्धाद्बिभेषि । अयुद्धं वै तात युद्धाद्गरीयः कस्तल्लब्ध्वा जातु युद्ध्येत सूत
अकुर्वतश्चेत्पुरुषस्य सञ्जय सिद्ध्येत्सङ्कल्पो मनसा यं यमिच्छेत्। न कर्म कुर्याद्विदितं ममैत- दन्यत्र युद्धाद्बहु यल्लघीयः
कुतो युद्धं जातु नरोऽवगच्छे- त्को देवशप्तो हि वृणीत युद्धम्। सुखैषिणः कर्म कुर्वन्ति पार्था धर्मादहीनं यच्च लोकस्य पथ्यम्
धर्मोदयं सुखमाशंसमानाः कृच्छ्रोपायं तत्त्वतः कर्म दुःखम्। सुखं प्रेप्सुर्विजिघांसुश्च दुःखं कर्मारभेद्यच्च धर्मानपेतम्
क इन्द्रियाणां प्रीतिवशानुरानां कर्माभिज्ञः स्वशरीरं दुनोति। यया प्रमुक्तो न करोति दुःखं तृष्णां त्यजेत्सर्वधर्मादपेताम्
सहास्माभिर्धृतराष्ट्रस्य राज्ञः
कथं त्वस्मान्संप्रणुदेत्कुरुभ्यः
अत्रैव स्यादवुधस्यैव कामः। प्रायः शरीरे हृदयं दुनोति
स्वयं राजा विषमस्थः परेषु सामर्थ्यमन्विच्छति तन्न साधु। यथाऽऽत्मनः पश्यति वृत्तमेव तथा परेतामपि सोऽभ्युपैति
आसन्नमग्निं तु निदाघकाले गम्भीरकक्षे गहने विसृज्य। यथा विवृद्धं वायुवशेन शोचे- त्क्षेमं मुमुक्षुः शिशिरव्यपाये