अनामयं पृच्छति त्वाम्बिकेयो वृद्धो राजा धृतराष्ट्रो मनीषी । कच्चिद्भीमः कुशली पाण्डवाग्र्यो धनञ्जयस्तौ च माद्रीतनूजौ
कच्चित्कृष्णा द्रौपदी राजपुत्री सत्यव्रता वीरपत्नी सुपुत्रा। मनस्विनी यत्र च वाञ्छसि त्व- मिष्टान्कामान्भारत स्वस्तिकामः
गावल्गणे सञ्जय स्वागतं ते प्रीतात्माऽहं त्वाऽभिनन्दामि सूत। अनामयं प्रतिमाने तवाहं सहानुजैः कुशली चास्मि विद्वन्
चिरादिदं कुशलं भारतस्य श्रुत्वा राज्ञः कुरुवृद्धस्य सूत। मन्ये साक्षाद्दृष्टमहं नरेन्द्रं दृष्ट्वैव त्वां सञ्जय प्रीतियोगात्
पितामहो नः स्थविरो मनस्वी महाप्राज्ञः सर्वधर्मोपपन्नः। सकौरव्यः कुशली तात भीष्मो यथापूर्वं वृत्तिरस्त्यस्य कच्चित्
कच्चिद्राजा धृतराष्ट्रः सपुत्रो वैचित्रवीर्यः कुशली महात्मा। महाराजो बाह्लिकः प्रातिपेयः कच्चिद्विद्वान्कुशली सूतपुत्र
स सोमदत्तः कुशली तात कच्चि- द्भूरिश्रवाः सत्यसन्धः शलश्च। द्रोणः सपुत्रश्च कृपश्च विप्रो महेष्वासाः कच्चिदेतेऽप्यरोगाः
सर्वे कुरुभ्यः स्पृहयन्ति सञ्जय धनुर्धरा ये पृथिव्यां प्रधानाः । महाप्रज्ञाः सर्वशास्त्रावदाता धनुर्भृतां मुख्यतमाः पृथिव्याम्
कच्चिन्मानं तात लभन्त एते धनुर्भृतः कचिदेतेऽप्यरोगाः। येषां राष्ट्रे निवसति दर्शनीयो महेष्वासः शीलवान्द्रोणपुत्रः
वैश्यापुत्रः कुशली तात कच्चित् महाप्राज्ञो राजपुत्रो युयुत्सुः । कर्णो मानी कुशली तात कच्चित् सुयोधनो यस्य मन्दो विधेयः
स्त्रियो वृद्धा भारतानां जनन्यो महादास्यो दासभार्याश्च सूत। वध्वः पुत्रा भागिनेया भगिन्यो दौहित्रा वा कच्चिदप्यव्यलीकाः
कच्चिद्राजा ब्राह्मणानां यथावत् प्रवर्तते पूर्ववत्तात वृत्तिम्। कच्चिद्दायान्मामकान्धार्तराष्ट्रो द्विजातीनां सञ्जय नोपहन्ति
कच्चिद्राजा धृतराष्ट्रः सपुत्र उपेक्षते ब्राह्मणातिक्रमान्वै। स्वर्गस्य कच्चिन्न तथा वर्त्मभूता- मुपेक्षते तेषु सदैव वृत्तिम्
एतञ्ज्योतिश्चोत्तमं जीवलोके शुक्लं प्रजानां विहितं विधात्रा। ते चेद्दोषं न नियच्छन्ति मन्दाः कृत्स्नो नाशो भविता कौरवाणाम्
कच्चिद्राजा धृतराष्ट्रः सपुत्रो बुभूषते वृत्तिममात्यवर्गे। कच्चिन्न भेदेन जिजीविषन्ति मुहृद्रूपा दुर्हृदश्चैकमत्यात्
कच्चिन्न पापं कथयन्ति तात ते पाण्डवानां कुरवः सर्व एव। द्रोणः सपुत्रश्च कृपश्च वीरो नास्मासु पापानि वदन्ति कच्चित्
कच्चिद्राज्ये धृतराष्ट्रं सपुत्रं समेत्याहुः कुरवः सर्व एव। कच्चिद्दृष्ट्वा दस्युसङ्घान्समेता- न्स्मरन्ति पार्थस्य युधां प्रणेतुः
मौर्वीभुजाग्रप्रहितान्स्म तात दोधूयमानेन धनुर्धरेण। गाण्डीवनुन्नांस्तनयित्नुघोषा- नजिह्मगान्कच्चिदनुस्मरन्ति
न चापश्यं कंचिदहं पृथिव्यां योधं समं वाऽधिकमर्जुनेन। यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः सुवाससः समंतो हस्तवापः
गदापाणिर्भीमसेनस्तरस्वी प्रवेपयञ्छत्रुसङ्घाननीके। नागः प्रभिन्न इव नङ्घलेषु चंक्रम्यते कच्चिदेनं स्मरन्ति
माद्रीपुत्रः सहदेवः कलिङ्गान् समागतानजयद्दन्तकूरे। वामेनास्यन्दक्षिणेनैव यो वै महाबलं कच्चिदेनं स्मरन्ति
पुरा जेतुं नकुलः प्रेषितोऽयं शिबींस्त्रिगर्तान्सञ्जय पश्यतस्ते। दिशं प्रतीचीं वशमानयन्मे माद्रीसुतं कच्चिदेनं स्मरन्ति
पराभवो द्वैतवने य आसी- द्दुर्मन्विते घोपयात्रागतानाम् । यत्र मन्दाञ्छत्रुवशं प्रयाता- नमोचयद्भीमसेनो जयश्च
अहं पश्चादर्जुनमभ्यरक्षं माद्रीपुत्रौ भीमसेनोऽप्यरक्षत्। गाण्डीवधन्वा शत्रुसङ्घानुदस्य स्वस्त्यागमत्कच्चिदेनं स्मरन्ति
न कर्मणा साधुनैकेन नूनं सुखं शक्यं वै भवतीह सञ्जय । सर्वात्मना परिजेतुं वयं चे- न्न शक्नुमो धृतराष्ट्रस्य पुत्रम्
यथाऽऽत्थ मे पाण्डव तत्तथैव कुरून्कुरुश्रेष्ठ जनं च पृच्छसि। अनामयास्तात मनस्विनस्ते कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम्
सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे सन्त्येव पापाः पाण्डव तस्य विद्धि। दद्याद्रिपुभ्योऽपि हि धार्तराष्ट्रः कुतो दायांल्लोपयेद्ब्राह्मणानाम्
यद्युष्मासु वर्ततेऽसावधर्म्य- मद्रुग्धेषु द्रुग्धवत्तन्न साधु। मित्रध्रुक् स्याद्धृतराष्ट्रस्य पुत्रो युष्मान्द्विपन्साधुवृत्तानसाधुः
स चापि जानाति भृशं च तप्यते शोचत्यन्तः स्थविरोऽजातशत्रो। शृणोति हि ब्राह्मणानां समेत्य मित्रद्रोहः पातकेभ्यो यरीयान्
स्मरन्ति तुभ्यं नरदेव सङ्गमे युद्धे च जिष्णोश्च युधां प्रणेतुः। समुद्धुष्टे दुन्दुभिशङ्खशब्दे गदापाणिं भीमसेनं स्मरन्ति