अस्त्रं द्रोणादर्जुनाद्वासुदेवा- त्कृपाद्भीष्माद्येन कृतं शृणोमि। यं तं कार्ष्णिप्रतिममाहुरेकं स सात्यकिः पाण्डवार्थे निविष्टः
उपाश्रिताश्चेदिकरूशकाश्च सर्वोद्योगैर्भूमिपालाः समेताः। तेषां मध्ये सूर्यमिवातपन्तं श्रिया वृतं चेदिपतिं ज्वलन्तम्
अस्तम्भनीयं युधि मन्यमान्यो ज्यां कर्षतां श्रेष्ठतमं पृथिव्याम् । सर्वोत्साहं क्षत्रियाणां निहत्य प्रसह्य कृष्णस्तरसा संममर्द
यशोमानौ वर्धयन्पाण्डवानां पुराऽभिनच्छिशुपालं समीक्ष्य। यस्य सर्वे वर्धयन्ति स्म मानं करूशराजप्रमुखा नरेन्द्राः
तमसह्यं केशवं तत्र मत्वा सुग्रीवयुक्तेन रथेन कृष्णम्। संप्राद्रवंश्चेदिपतिं विहाय सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये
यस्तं प्रतीपस्तरसा प्रत्युदीया- दाशंसमानो द्वैरथे वासुदेवम् । सोऽशेत कृष्णेन हतः परासु- र्वातेनेवोन्मथितः कर्णिकारः
पराक्रमं मे यदवेदयन्त तेषामर्थे सञ्जय केशवस्य। अनुस्मरंस्तस्य कर्माणि विष्णो- र्गावल्गणे नाधिगच्छामि शान्तिम्
न जातु ताञ्छत्रुरन्यः सहेत येषां स स्यादग्रणीर्वृष्णिसिंहः । प्रवेपते मे हृदयं भयेन श्रुत्वा कृष्णावेकरथे समेतौ
न चेद्गच्छेत्सङ्गरं मन्दबुद्धि- स्ताभ्यां लभेच्छर्म तदा सुतो मे। नो चेत्कुरून्सञ्जय निर्दहेता- मिन्द्राविष्णू दैत्यसेनां यथैव
मते हि मे शक्रसमो धनञ्जयः सनातनो वृष्णिवीरश्च विष्णुः। धर्मारामो ह्रीनिषेवस्तरस्वी कुन्तीपुत्रः पाण्डवोऽजातशत्रुः
दुर्योधनेन निकृतो मनस्वी नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान् । नाहं तथा ह्यर्जुनाद्वासुदेवा- द्भीमाद्वाऽहं यमयोर्वा बिभेमि
यथा राज्ञः क्रोधदीप्तस्य सूत मन्योरहं भीततरः सदैव । महातपा ब्रह्मचर्येण युक्तः सङ्कल्पोऽयं मानसस्तस्य सिद्ध्येत्
तस्य क्रोधं सञ्जयाहं समीक्ष्य स्थाने जानन्भृशमस्म्यद्य भीतः। स गच्छ शीघ्रं प्रहितो रथेन पाञ्चालराजस्य चमूनिवेशनम्
अजातशत्रुं कुशलं स्म पृच्छेः पुनः पुनः प्रीतियुक्तं वदेस्त्वम्। जनार्दनं चापि समेत्य तात महामात्रं वीर्यवतामुदारम्
अनामयं मद्वचनेन पृच्छे- र्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः । न तस्य किंचिद्वचनं न कुर्यात् कुन्तीपुत्रो वासुदेवस्य सूत
प्रियश्चैषामात्मसमश्च कृष्णो विद्वांश्चैषां कर्मणि नित्ययुक्तः । समानीतान्पाण्डवान्सृञ्जयांश्च जनार्दनं युयुधानं विराटम्
न मूर्च्छयेद्यन्न च युद्धहेतुः
राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य सञ्जयः। उपप्लाव्यं ययौ द्रष्टुं पाण्डवानमितौजसः
स तु राजानमासाद्य कुन्तीपुत्रं युधिष्ठिरम् । अभिवाद्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत
गवल्गणिः सञ्जयः सूतसूनु- रजातशत्रुमवदत्प्रतीतः। दिष्ट्या राजंस्त्वामरोगं प्रपश्ये सहायवन्तं च महेन्द्रकल्पम्
अनामयं पृच्छति त्वाम्बिकेयो वृद्धो राजा धृतराष्ट्रो मनीषी । कच्चिद्भीमः कुशली पाण्डवाग्र्यो धनञ्जयस्तौ च माद्रीतनूजौ
कच्चित्कृष्णा द्रौपदी राजपुत्री सत्यव्रता वीरपत्नी सुपुत्रा। मनस्विनी यत्र च वाञ्छसि त्व- मिष्टान्कामान्भारत स्वस्तिकामः
गावल्गणे सञ्जय स्वागतं ते प्रीतात्माऽहं त्वाऽभिनन्दामि सूत। अनामयं प्रतिमाने तवाहं सहानुजैः कुशली चास्मि विद्वन्
चिरादिदं कुशलं भारतस्य श्रुत्वा राज्ञः कुरुवृद्धस्य सूत। मन्ये साक्षाद्दृष्टमहं नरेन्द्रं दृष्ट्वैव त्वां सञ्जय प्रीतियोगात्
पितामहो नः स्थविरो मनस्वी महाप्राज्ञः सर्वधर्मोपपन्नः। सकौरव्यः कुशली तात भीष्मो यथापूर्वं वृत्तिरस्त्यस्य कच्चित्
कच्चिद्राजा धृतराष्ट्रः सपुत्रो वैचित्रवीर्यः कुशली महात्मा। महाराजो बाह्लिकः प्रातिपेयः कच्चिद्विद्वान्कुशली सूतपुत्र
स सोमदत्तः कुशली तात कच्चि- द्भूरिश्रवाः सत्यसन्धः शलश्च। द्रोणः सपुत्रश्च कृपश्च विप्रो महेष्वासाः कच्चिदेतेऽप्यरोगाः
सर्वे कुरुभ्यः स्पृहयन्ति सञ्जय धनुर्धरा ये पृथिव्यां प्रधानाः । महाप्रज्ञाः सर्वशास्त्रावदाता धनुर्भृतां मुख्यतमाः पृथिव्याम्
कच्चिन्मानं तात लभन्त एते धनुर्भृतः कचिदेतेऽप्यरोगाः। येषां राष्ट्रे निवसति दर्शनीयो महेष्वासः शीलवान्द्रोणपुत्रः
वैश्यापुत्रः कुशली तात कच्चित् महाप्राज्ञो राजपुत्रो युयुत्सुः । कर्णो मानी कुशली तात कच्चित् सुयोधनो यस्य मन्दो विधेयः