किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि। एक एव यदा पार्थः षड्रथाञ्जितवान्युधि
विराटनगरे धीरः किं त्वं तत्रैव नागतः'। बहुशो जीयमानस्य कर्म दृष्टं तदैव ते
न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत्। ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान्
धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च। अवभर्त्स्य च राधेयमिदं वचनमब्रवीत्
अस्मद्धितं वाक्यमिदं भीष्मः शान्तनवोऽब्रवीत्। पाण्डवानां हितं चैव सर्वस्य जगतस्तथा
चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम् । स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम्
स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान् । सभामध्ये समाहूय सञ्जयं वाक्यमब्रवीत्
प्राप्तानाहुः सञ्जय पाण्डुपुत्रा- नुपप्लव्ये तान्विजानीहि गत्वा। अजातशत्रुं च सभाजयेथा दिष्ट्या वनाद्ग्राममुपस्थितस्त्वम्
सर्वान्वदेः सञ्जय स्वस्तिमन्तः कृच्छ्रं वासमतदर्हा निरुष्य। तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं मिथ्यापेतानामुपकारिणां सताम्
नाहं क्वचित्सञ्जय पाण्डवानां मिथ्यावृत्तिं कांचन जात्वपश्यम्। सर्वां श्रियं ह्यात्मवीर्येण लब्धां पर्याकार्षुः पाण्डवा मह्यमेव
दोषं ह्येषां नाध्यगच्छं परीच्छ- न्सूक्ष्मं कंचिद्येन गर्हेय पार्थान्। धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं सुखप्रिये नानुरुध्यन्ति कामात्
धर्मं शीतं क्षुत्पिपासे तथैव निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम्। धृत्या चैव प्रज्ञया चाभिभूय धर्मार्थयोगान्प्रयतन्ति पार्थाः
र्दुर्योधनात्क्षुद्रतराच्च कर्णात्
पुत्रो मह्यं मृत्युवशं जगाम दुर्योधनः सञ्जय रागबुद्धिः।' तेषां हीमौ हीनसुखप्रियाणां महात्मनां संजनयतो हि तेजः
उत्थानवीर्यः सुखमेधमानो दुर्योधः सुकृतं मन्यते तत्। तेषां भागं यच्च मन्येत बालः शक्यं हर्तुं जीवतां पाण्डवानाम्
यस्यार्जुनः पदवीं केशवश्च वृकोदरः सात्यकोऽजातशत्रोः । माद्रीपुत्रौ सृञ्जयाश्चापि यान्ति पुरा युद्धात्साधु तस्य प्रदानम्
सह्येवैकः पृथिवीं सव्यसाची गाण्डीवधन्वा प्रणुदेद्रथस्थः। तथा जिष्णुः केशवोऽप्यप्रधृष्यो लोकत्रयस्याधिपतिर्महात्मा
तिष्ठेत कस्तस्य मर्त्यः पुरस्ता- द्यः सर्वलोकेषु वरेण्य एकः। पर्जन्यघोषान्प्रवपञ्शरौघा- न्पतङ्गसङ्घानिव शीघ्रवेगान्
दिशं ह्युदीचीमपि चोत्तरान्कुरून् गाण्डीवधन्वैकरथो जिगाय। धनं चैपामाहरत्सव्यसाची सेनानुगान्द्रविडांश्चैव चक्रे
यश्चैव देवान्खाण्डवे सव्यसाची गाण्डीवधन्वा प्रजिगाय सेन्द्रान्। उपाहरत्पाण्डवो जातवेदसे यशो मानं वर्धयन्पाण्डवानाम्
गदाभृतां नास्ति समोऽत्र भीमा- द्धस्त्यारोहो नास्ति समश्च तस्य। रथेऽर्जुनादाहुरहीनमेनं बाह्वोर्वलेनायुतनागवीर्यम्
सुशिक्षितः कृतवैरस्तरस्वी दहेत्क्षुद्रांस्तरसा धार्तराष्ट्रान् । सदाऽत्यमर्षी न वलात्स शक्यो युद्धे जेतुं वासवेनापि साक्षात्
सुतेजसौ वलिनौ शीघ्रहस्तौ सुशिक्षितौ भ्रातरौ फाल्गुनेन। श्येनौ यथा पक्षिपूगान्रुजन्तौ माद्रीपुत्रौ शेपयेतां न शत्रून्
एतद्बलं पूर्णमस्माकमेवं यत्सत्यं तान्प्राप्य नास्तीति मन्ये। तेषां मध्ये वर्तमानस्तरस्वी धृष्टद्युम्नः पाण्डवानामिहैकः
सहामात्यः सोमकानां प्रबर्हः सन्त्यक्तात्मा पाण्डवार्थे श्रुतो मे। अजातशत्रुं प्रसहेत कोऽन्यो येषां स स्यादग्रणीर्वृष्णिसिंह
सहोषितश्चरितार्थो वयस्थो मात्स्येयानामधिपो वै विराटः। स वै सपुत्रः पाण्डवार्थे च शश्व- द्युधिष्ठिरे भक्त इति श्रुतं मे
अवरुद्धा रथिनः केकयेभ्यो महेष्वासा भ्रातरः पञ्च सन्ति। केकयेभ्यो राज्यमाकाङ्क्षमाणा युद्धार्थिनश्रानुवसन्ति पार्थान्
सर्वांश्च वीरान्पृथिवीपतीनां समागतान्पाण्डवार्थे निविष्टान्। शूरानहं भक्तिमतः शृणोमि प्रीत्या युक्तान्संश्रितान्धर्मराजन्
गिर्याश्रया दुर्गनिवासिनश्च योधाः पृथिव्यां कुलजातिशुद्धाः। म्लेच्छाश्च नानायुधवीर्यवन्तः समागताः पाण्डवार्थे निविष्टाः
पाण्ड्यश्च राजा समितीन्द्रकल्पो योधप्रवीरैर्बहुभिः समेतः। समागतः पाण्डवार्थे महात्मा लोकप्रवीरोऽप्रतिवीर्यतेजाः