अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः । सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ
एकादशैताः पृतना एकतश्च समागताः । एकतश्च महाबाहुर्बहुरूपी धनञ्जयः
यथा किरीटी सर्वाभ्यः सेनाभ्यो व्यतिरिच्यते। एवमेव महाबाहुर्वासुदेवो महाद्युतिः
बहुलत्वं च सेनानां विक्रमं च किरीटिनः। बुद्धिमत्त्वं च कृष्णस्य बुद्ध्वा युध्येत को नरः
ते भवन्तो यथाधर्मं यथासमयमेव च। प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम्
तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः। संपूज्यैनं यथाकालं भीष्मो वचनमब्रवीत्
दिष्ट्या कुशलिनः सर्वे सह दामोदरेण ते। दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः
दिष्ट्या च सन्धिकामास्ते भ्रातरः कुरुनन्दनाः । दिष्टा न युद्धमनसः पाण्डवाः सह बान्धवैः
भवता सत्यमुक्तं तु सर्वमेतन्न संशयः। अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः
असंशयं क्सेशितास्ते वने चेह च पाण्डवाः। प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम्
किरीटि बलवान्पार्थः कृतास्त्रश्च महारथः । को हि पाण्डुसुतं युद्धे विषहेत धनञ्जयम्
अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः । त्रयाणामपि लोकानां समर्थ इति मे मतिः
भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युना। दुर्योधनं समालोक्य कर्णो वचनमब्रवीत्
न तत्राविदितं ब्रह्मँल्लोके भूतेन केनचित् । पुनरुक्तेन किं तेन भाषितेन पुनः पुनः
दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा । समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः
स तं समयमाश्रित्य राज्यं नेच्छति पैतृकम्। बलमाश्रित्य मत्स्यानां पाञ्चालानां च मूर्खवत्
दुर्योधनो भयाद्विद्वन्न दद्यात्पादमन्ततः। धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च
यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः । यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः
ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः । अधार्मिकीं तु मा बुद्धिं मौर्ख्यात्कुर्वन्तु केवलात्
अथ ते धर्ममुत्सृत्य युद्धमिच्छन्ति पाण्डवाः। आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम
किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि। एक एव यदा पार्थः षड्रथाञ्जितवान्युधि
विराटनगरे धीरः किं त्वं तत्रैव नागतः'। बहुशो जीयमानस्य कर्म दृष्टं तदैव ते
न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत्। ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान्
धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च। अवभर्त्स्य च राधेयमिदं वचनमब्रवीत्
अस्मद्धितं वाक्यमिदं भीष्मः शान्तनवोऽब्रवीत्। पाण्डवानां हितं चैव सर्वस्य जगतस्तथा
चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम् । स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम्
स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान् । सभामध्ये समाहूय सञ्जयं वाक्यमब्रवीत्
प्राप्तानाहुः सञ्जय पाण्डुपुत्रा- नुपप्लव्ये तान्विजानीहि गत्वा। अजातशत्रुं च सभाजयेथा दिष्ट्या वनाद्ग्राममुपस्थितस्त्वम्
सर्वान्वदेः सञ्जय स्वस्तिमन्तः कृच्छ्रं वासमतदर्हा निरुष्य। तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं मिथ्यापेतानामुपकारिणां सताम्
नाहं क्वचित्सञ्जय पाण्डवानां मिथ्यावृत्तिं कांचन जात्वपश्यम्। सर्वां श्रियं ह्यात्मवीर्येण लब्धां पर्याकार्षुः पाण्डवा मह्यमेव