अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः । जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः
आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान्। तेषामक्षौहिणी सेना बहुला विबभौ तदा
विधूयमानो वातेन बहुरूप इवाम्बुदः। सुदक्षिणश्च काम्भोजो यवनैश्च शकैस्तथा
उपाजगाम कौरव्यमक्षौहिण्या विशांपते । तस्य सेनासमावायः शलभानामिवाबभौ
स च संप्राप्य कौरव्यं तत्रैवान्तर्दधे तदा। तथा महिष्मतीवासी नीलो नीलायुधैः सह
महीपालो महावीर्यैर्दक्षिणापथवासिभिः । आवन्त्यौ च महीपालौ महाबलसुसंवृतौ
पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् । ततस्ततस्तु सर्वेषां भूमिपानां महात्मनाम्
तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ । एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः
युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः । न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा
राज्ञां स्वबलमुख्यानां प्राधान्येनापि भारत । ततः प़ञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम्
तथा रोहितकारण्यं मरुभूमिश्च केवला। अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत
वारणं वाटधानं च यामुनश्चैव पर्वतः। एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान्
बभूव कौरवेयाणां बलेनातीव संवृतः। तत्र सैन्यं तथा युक्तं ददर्श स पुरोहितः
यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति
स च कौरव्यमासाद्य द्रुपदस्य पुरोहितः। सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च
सर्वकौशल्यमुक्त्वाऽऽदौ पृष्ट्वा चैवमनामयम्। सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह
सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः। वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति
धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ । तयोः समानं द्रविणं पैतृकं नात्र संशयः
धृतराष्ट्रस्य ये पुत्राः प्राप्तं तैः पैतृकं वसु। पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु
वनं गतैः पाण्डवेयैर्विदितं वः पुरा यथा। न प्राप्तं पैतृकं द्रव्यं धृतराष्ट्रेण यद्धृतम्
प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः । शेषवन्तो न शकिता नेतुं वै यमसादनम्
पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः । छद्मनाऽपहृतं क्षुद्रैर्धार्तराष्ट्रैः ससौबलैः
तदप्यनुमतं कर्म यथा युक्तमनेन वै। वासिताश्च महारण्ये वर्षाणीह त्रयोदश
सभायां क्लेशितैर्वीरैः सहभार्यैस्तथा भृशम् । अरण्ये विविधाः क्लेशाः संप्राप्तास्तैः सुदारुणाः
तथा विराटनगरे योन्यन्तरगतैरिव। प्राप्तः परमसंक्लेशो यथा पापैर्महात्मभिः
ते सर्वं पृष्ठतः कृत्वा तत्पूर्वं कर्म किल्विषम् । साम्नैव कुरुभिः सन्धिमिच्छन्ति कुरुपुङ्गवाः
तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च। अनुनेतुमिहार्हन्ति धार्तराष्ट्रं सुहृज्जनाः
न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह। अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम्
यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति। स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते
अक्षौहिण्यश्च सप्तैव धर्मपुत्रस्य सङ्गताः। युयुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम्