तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे। प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा
केकयाश्च नरव्याघ्राः सोदराः पञ्च पार्थिवाः । संहर्षयन्तः कौन्तेयोनक्षौहिण्या समागताः
द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः। शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः
तथैव राजा मत्स्यानां विराटो वाहिनीपतिः । पार्वतीयैर्महीपालैः सहितः पाण्डवानयात्
इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् । अक्षौहिण्यस्तु सप्तैव विविधध्वजसङ्कुलाः
युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् । तथैव धार्तराष्ट्रस्य हर्षं समभिर्धयन्
भगदत्तो महीपालः सेनामक्षौहिणीं ददौ। तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम्
बभौ बलमनाधृष्यं कर्णिकारवनं यथा। तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन
दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् । कृतवर्मा च हार्दिक्यो भोजान्धकुकुरैः सह
अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत्। तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम्
अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः । जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः
आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान्। तेषामक्षौहिणी सेना बहुला विबभौ तदा
विधूयमानो वातेन बहुरूप इवाम्बुदः। सुदक्षिणश्च काम्भोजो यवनैश्च शकैस्तथा
उपाजगाम कौरव्यमक्षौहिण्या विशांपते । तस्य सेनासमावायः शलभानामिवाबभौ
स च संप्राप्य कौरव्यं तत्रैवान्तर्दधे तदा। तथा महिष्मतीवासी नीलो नीलायुधैः सह
महीपालो महावीर्यैर्दक्षिणापथवासिभिः । आवन्त्यौ च महीपालौ महाबलसुसंवृतौ
पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् । ततस्ततस्तु सर्वेषां भूमिपानां महात्मनाम्
तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ । एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः
युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः । न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा
राज्ञां स्वबलमुख्यानां प्राधान्येनापि भारत । ततः प़ञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम्
तथा रोहितकारण्यं मरुभूमिश्च केवला। अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत
वारणं वाटधानं च यामुनश्चैव पर्वतः। एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान्
बभूव कौरवेयाणां बलेनातीव संवृतः। तत्र सैन्यं तथा युक्तं ददर्श स पुरोहितः
यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति
स च कौरव्यमासाद्य द्रुपदस्य पुरोहितः। सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च
सर्वकौशल्यमुक्त्वाऽऽदौ पृष्ट्वा चैवमनामयम्। सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह
सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः। वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति
धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ । तयोः समानं द्रविणं पैतृकं नात्र संशयः
धृतराष्ट्रस्य ये पुत्राः प्राप्तं तैः पैतृकं वसु। पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु
वनं गतैः पाण्डवेयैर्विदितं वः पुरा यथा। न प्राप्तं पैतृकं द्रव्यं धृतराष्ट्रेण यद्धृतम्