ततस्त्वामन्त्र्य कौन्तेयाञ्छल्यो मद्राधिपस्तदा। जगाम सबलः श्रीमान्दुर्योधनमरिन्दम
युयुधानस्ततो वीरः सात्वतानां महारथः। महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम्
तस्य योधा महावीर्या नानादेशसमागताः। नानाप्रहरणा वीराः शोभयांचक्रिरे बलम्
परश्वथैर्भिण्डिपालैः शूलतोमरमुद्गरैः । परिघैर्यष्टिभिः पाशैः करवालैश्च निर्मलैः
खङ्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि । तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम्
तस्य मेघप्रकाशस्य सौवर्णौः शोभितस्य च। बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः
अक्षौहिणी तु सा सेना तदा यौधिष्ठिरं बलम्। प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा
तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली । धृष्टकेतुरुपागच्चत्पाण्डवानमितौजसः
मागधश्च जयत्सेनो जारासन्धिर्महाबलः । अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत्
तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः। वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत्
तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे। प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा
केकयाश्च नरव्याघ्राः सोदराः पञ्च पार्थिवाः । संहर्षयन्तः कौन्तेयोनक्षौहिण्या समागताः
द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः। शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः
तथैव राजा मत्स्यानां विराटो वाहिनीपतिः । पार्वतीयैर्महीपालैः सहितः पाण्डवानयात्
इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् । अक्षौहिण्यस्तु सप्तैव विविधध्वजसङ्कुलाः
युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् । तथैव धार्तराष्ट्रस्य हर्षं समभिर्धयन्
भगदत्तो महीपालः सेनामक्षौहिणीं ददौ। तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम्
बभौ बलमनाधृष्यं कर्णिकारवनं यथा। तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन
दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् । कृतवर्मा च हार्दिक्यो भोजान्धकुकुरैः सह
अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत्। तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम्
अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः । जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः
आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान्। तेषामक्षौहिणी सेना बहुला विबभौ तदा
विधूयमानो वातेन बहुरूप इवाम्बुदः। सुदक्षिणश्च काम्भोजो यवनैश्च शकैस्तथा
उपाजगाम कौरव्यमक्षौहिण्या विशांपते । तस्य सेनासमावायः शलभानामिवाबभौ
स च संप्राप्य कौरव्यं तत्रैवान्तर्दधे तदा। तथा महिष्मतीवासी नीलो नीलायुधैः सह
महीपालो महावीर्यैर्दक्षिणापथवासिभिः । आवन्त्यौ च महीपालौ महाबलसुसंवृतौ
पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् । ततस्ततस्तु सर्वेषां भूमिपानां महात्मनाम्
तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ । एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः
युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः । न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा
राज्ञां स्वबलमुख्यानां प्राधान्येनापि भारत । ततः प़ञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम्