दृष्ट्वा युधिष्ठिरं नाम तव वंशसमुद्भवम्। निहतो ब्रह्मशापेन प्रपद्यस्व त्रिविष्टपम्
एवं भ्रष्टो दुरात्मा स देवराज्यादरिन्दम। दिष्ट्या वर्धामहे शक्र हतो ब्रह्मर्षिकण्टकः
त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ्शचीपते। जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः
ततो देवा भृशं तुष्टा महर्षिगणसंवृताः। पितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा
गन्धर्वा देवकन्याश्च सर्वे चाप्सरसां गणाः। सरांसि सरितः शैलाः सागराश्च विशांपते
उपागम्याब्रुवन्सर्वे दिष्ट्या वर्धसि शक्रुहन् । हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमता। दिष्ट्या पापसमाचारः कृतः सर्पो महीतले
ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः। ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम्
पावकः सुमहातेजा महर्षिश्च बृहस्पतिः। यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः
सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः । गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः
स समेत्य महेन्द्राण्या देवराजः शतक्रतुः। मुदा परमया युक्तः पालयामास देवराट्
ततः स भगवांस्तत्र अङ्गिराः समदृश्यत। अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत्
ततस्तु भगवानिन्द्रः संहृष्टः समपद्यत। वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा
अथर्वाङ्गिरसं नाम वेदेऽस्मिन्वै भविष्यति। उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे
एवं संपूज्य भगवानथर्वाङ्गिरसं तदा। व्यसर्जयन्महाराज देवराजः शतक्रतुः
संपूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान्। इन्द्रः प्रमुदितो राजन्धर्मेणापालयत्प्रजाः
एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया। अज्ञातवासश्च कृतः शत्रूणां वधकाङ्क्षया
नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने। द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः
एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत। वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन
दुराचारश्च नहुषो ब्रह्वद्विट् पापचेतनः। अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः
एवं तव दुरात्मानः शत्रवः शत्रुसूदन । क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः
ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम्। भ्रातृभिः सहितो वीर द्रौपद्या च सहानया
उपाख्यानमिदं शक्रविजयं वेदसंमितम् । राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता
तस्मात्संश्रावयामि त्वां विजयं जयतां वर। संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर
क्षत्रियाणामभावोयं युधिष्ठिर महात्मनाम्। दुर्योधनापराधेन भीमार्जुनबलेन च।। सङ्ग्रामे संक्षयो घोरो भविष्यत्यचिरादिव
आख्यानमिन्द्रविजयं य इदं नियतः पठेत्। धूतपाप्मा जितस्वर्गः परत्रेह च मोदते
न चारिजं भयं तस्य नापुत्रो वा भवेन्नरः। नापदं प्राप्नुयात्कांचिद्दीर्घमायुश्च विन्दति। सर्वत्र दयमाप्नोति न कदाचित्पराजयम्
एवमाश्वासितो राजा शल्येन भरतर्षभ । पूजयामास विधिवच्छल्यं धर्मभृतां वरः
श्रुत्वा तु शल्यवचनं कुन्तीपुत्रो युधिष्ठिरः। प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः
भवान्कर्णस्य सारथ्यं करिष्यति न संशयः। तत्र तेजोवधः कार्यः कर्णस्यार्जुनसंस्तवैः
एवमेतत्करिष्यामि यथा मां संप्रभाषसे। यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव