तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम्। शर्मिष्ठां मातरं चैव तथाऽऽचख्युश्च दारकाः
इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः। नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके
रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः। `अविब्रुवन्ती किंचिच्च राजानं चारुलोचना
नातिदूराच्च राजानं सा चातिष्ठदवाङ्मुखी। श्रुत्वा तेषां तु बालानां सव्रीड इव पार्थिवः
प्रतिवक्तुमशक्तोऽभूत्तूष्णींभूतोऽभवन्नृपः। दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति
बुद्ध्वा तु तत्त्वतो देवी शर्मिष्ठापिदमब्रवीत्। अभ्यागच्छति मां कश्चिदृषिरित्येवमब्रवीः
ययातिमेवं राजानं त्वं गोपायसि भामिनि। पूर्वमेव मया प्रोक्तं त्वया तु वृजिनं कृतम्
मदधीना सती कस्मादकार्षीर्विप्रियं मम। तमेवाऽऽसुरधर्मं त्वमास्थिता न बिभेषि मे
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि। न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते
यदा त्वया वृतो भर्ता वृत एव तदा मया। सखीभर्ता हि धर्मेण भर्ता भवति शोभने
पूज्यासि मम मान्या च ज्येष्ठा च ब्राह्मणी ह्यसि। त्वत्तोपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत्
त्वत्पित्रा मम गुरुणा सह दत्ते उभे शुभे। ततो भर्ता च पूज्यश्च पोष्यां पोषयतीह माम्
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम्। रमस्वेह यथाकामं देव्या शर्मिष्ठया सह
राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया। इति जज्वाल कोपेन देवयानी ततो भृशम्
निर्दहन्तीव सव्रीडां शर्मिष्ठां समुदीक्ष्य च। अपविध्य च सर्वाणि भूषणान्यसितेक्षणा
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम्। तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा
अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः। न्यवर्तत नचैव स्म क्रोधसंरक्तलोचना
अविब्रुवन्ती किंचित्सा राजानं साश्रुलोचना। अचिरादेव संप्राप्ता काव्यस्योशनसोऽन्तिकम्
सा तु दृष्ट्वै पितरमभिवाद्याग्रतः स्थिता। अनन्तरं यायातिस्तु पूजयामास भार्गवम्
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम्। शर्मिष्ठयाऽतिवृत्ताऽस्मि दुहित्रा वृषपर्वणः
त्रयोऽस्यां जनिताः पुत्रा राज्ञाऽनेन ययातिना। दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह। अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते
धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम्। तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया
ऋतुं वै याचमानाया भगवन्नान्यचेतसा। दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया
ऋतुं वै याचमानाया न ददाति पुमानृतुम्। भ्रूणहेत्युच्यते ब्रह्मन् स इह ब्रह्मवादिभिः
अभिकामां स्त्रियं यश्च गम्यां रहसि याचितः। नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः
यद्यद्वृणोति मां कश्चित्तत्तद्देयमिति व्रतम्। त्वया च सापि दत्ता मे नान्यं नाथमिहेच्छति
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह। अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान्। `मत्वैतन्मे धर्म इति कृतं ब्रह्मन्क्षमस्व माम्
नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव। मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष
क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा। पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत