एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल। उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम्
अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि। दृढं मे रुचिरं देवि त्वद्वशोऽस्मि वरानने
न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् । अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः
मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम्। देवदानवगन्धर्वाः किन्नरोरगराक्षसाः
न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते। चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम्
अहमिन्द्रोऽस्मि देवानां लोकानां च महेश्वरः। मयि हव्यं च कव्यं च लोकाश्चैव सनातनाः ।' तस्मात्ते वचनं देवि करिष्यामि न संशयः
सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा । पश्य माहात्म्ययोगं मे ऋद्धिं च वरवर्णिनि
एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम् । ` अथ संचिन्त्य नहुषो बलवीर्येण भारत
विसृज्य सुप्रतीकं च नागमैरावतं तथा। हंसयुक्तं विमानं च हरियुक्तं तथा रथम्
स तु दर्पेण महता परिभूय महामुनीन्।' विमाने योजयित्वा च ऋषीन्नियमामास्थितान्
अब्रह्मण्यो बलोपेतो मत्तो मदबलेन च। कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन्
नहुषेण विसृष्टा च बृहस्पतिमथाब्रवीत्। समयोऽल्पावशेषो मे नहुषेणेह यः कृतः
शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम्। बाढमित्येव भगवान्बृहस्पतिरुवाच ताम्
न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः । न ह्येष स्थास्यति चिरं गत एष नराधमः
अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे । इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः
शक्रं चाधिगमिष्यामि माभैस्त्वं भद्रमस्तु ते। ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः
बृहस्पतिर्महातेजा देवराजोपलब्धये। हुत्वाऽग्निं सोब्रवीद्राजञ्छक्र अन्विष्यतामिति
तस्माच्च भगवान्देवः स्वयमेव हुताशनः । स्त्रीवेषमद्भुतं कृत्वा तत्रैवान्तरधीयत
स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च। पृथिवीं चान्तरिक्षं च विचित्याथ मनोगतिः। निमेषान्तरमात्रेण बृहस्पतिमुपागमत्
बृहस्पते न पश्यामि देवराजमिह क्वचित्। आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम्
न मे तत्र गतिर्ब्रह्मन्किमन्यत्करवाणि ते। तमब्रवीद्देवगुरुरपो विश महाद्युते
नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति। शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेस्तु महाद्युते
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति
अथ संचिन्तयानस्य देवराजस्य धीमतः। नहुषस्य वधोपायं लोकपालैः सदैवतैः
तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत। सोऽब्रवीदर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान्
विश्वरूपविनाशेन वृत्रासुरवधेन च। दिष्ट्याद्य नहुषो भ्रष्टो देवराज्यात्पुरन्दर
स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात्तत। पाद्यमाचमनीयं च गामर्घ्यं च प्रतीच्छ मे
पूजितं चोपविष्टं तमासेन मुनिसत्तमम्। पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम्
श्रोतुमिच्छामि भगवन्कथ्यमानं द्विजोत्तम। परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः
श्रृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान् । स्वर्गाद्भ्रष्टो दुराचारो नहुषो बलदर्पितः