इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः। स्तूयमानस्ततो देवः शचीमाह पुरन्दरः
किमर्थमसि संप्राप्ता विज्ञातश्च कथं त्वहम्। ततः सा कथयामास नहुषस्य विचेष्टितम्
इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यसमन्वितः । दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो
उपतिष्ठेति स क्रूरः कालं च कृतवान्मम । यदि न त्रास्यसि विभो करिष्यति स मां वशे
एतेन चाहं संप्राप्ता द्रुतं शक्र तवान्तिकम्। जहि रौद्रं महाबाहो नहुषं पापनिश्चयम्
प्रकाशयस्व चात्मानं दैत्यदानवसूदन। तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च
एवमुक्तः स भगवाञ्शच्या तां पुनरब्रवीत्। विक्रमस्य न कालोऽयं नहुषो बलवत्तरः
विवर्द्धितश्च ऋषिभिर्हव्यकव्यैश्च भामिनि । नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि
गुह्यं चैतत्त्वया कार्यं नाख्यातव्यं शुभे क्वचित् । गत्वा नहुषमेकान्ते ब्रवीहि च सुमध्यमे
ऋषियानेन दिव्येन मामुपैहि जगत्पते । एवं तव वशे प्रीता भविष्यामीति तं वद
इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा । एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति
नहुषस्तां ततो दृष्ट्वा सस्मितो वाक्यमब्रवीत् । स्वागतं ते वरारोहे किं करोमि शुचिस्मिते
भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि । तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे
न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वसेः। सत्येन वै पशे देवि करिष्ये वचनं तव
यो मे कृतस्त्वया कालस्तमाकाङ्क्षे जगत्पते। ततस्त्वमेव भर्ता मे भविष्यसि सुराधिम
कार्यं च हृदि मे यत्तद्देवराजावधारय। वक्ष्यामि यदि मे राजन्प्रियमेतत्करिष्यसि
वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव। इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा
इच्छाम्यहमथापूर्वं वाहनं ते सुराधिप । यन्न विष्णोर्न रुद्रस्य न सुराणां न रक्षसाम्
वहन्तु त्वां महाभागा ऋषयः सङ्गता विभो। सर्वे शिबिकया राजन्नेतद्धि मम रोचते
नासुरेषु न देवेषु तुल्यो भवितुमर्हसि । सर्वेषां तेज आदत्से स्वेन वीर्येण दर्शनात्
एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल। उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम्
अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि। दृढं मे रुचिरं देवि त्वद्वशोऽस्मि वरानने
न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् । अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः
मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम्। देवदानवगन्धर्वाः किन्नरोरगराक्षसाः
न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते। चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम्
अहमिन्द्रोऽस्मि देवानां लोकानां च महेश्वरः। मयि हव्यं च कव्यं च लोकाश्चैव सनातनाः ।' तस्मात्ते वचनं देवि करिष्यामि न संशयः
सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा । पश्य माहात्म्ययोगं मे ऋद्धिं च वरवर्णिनि
एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम् । ` अथ संचिन्त्य नहुषो बलवीर्येण भारत
विसृज्य सुप्रतीकं च नागमैरावतं तथा। हंसयुक्तं विमानं च हरियुक्तं तथा रथम्
स तु दर्पेण महता परिभूय महामुनीन्।' विमाने योजयित्वा च ऋषीन्नियमामास्थितान्