देवदेवेन शङ्गम्य विष्णुना प्रभविष्णुना। ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः
ब्रह्मवध्याभिभूतो वै शक्रः सुरगणेश्वरः । गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्। त्वद्वीर्यनिहते वृत्रे वासवो ब्रह्महत्यया
वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश। तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत्
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम्। पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः। स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः
किंचित्कालमिदं देवा मर्षयध्वमतन्द्रिताः। श्रुत्वा विष्णोः शुभां सत्यां वाणीं ताममृतोपमाम्
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः । यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः
तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः । ववृते पावनार्थं वै ब्रह्महत्यापहो नृप
विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च। पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर
संविभज्य च भूतेषु विसृज्य च सुरेश्वरः। विज्वरो धूतपाप्मा च वासवोऽभवदात्मवान्
अकम्प्यं नहुषं स्थानाद्दृष्ट्वा बलनिषूदनः। तेजोघ्नं सर्वभूतानां वरदानाच्च दुःसहम्
ततः शचीपतिर्देवः पुनरेव व्यनश्यत। अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह
प्रनष्टे तु ततः शक्रे शची शोकसमन्विता । हा शक्रेति तदा देवी विललाप सुदुःखिता
यदि दत्तं यदि हुतं गुरवस्तोषिता यदि। एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि
पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तरायणे। देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः
प्रयता च निशां देवीमुपातिष्ठत तत्र सा। पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत्
यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे। इत्याहोपश्रुतिं देवीं सत्यं सत्येन दृश्यताम्
अथैनां रूपिणी साध्वीमुपातिष्ठदुपश्रुतिः। तां वयोरूपसंपन्नां दृष्ट्वा देवीमुपस्थिताम्
इन्द्राणी संप्रहृष्टात्मा संपूज्यैनामथाब्रवीत्। इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने
उपश्रुतिरहं देवि तवान्तिकमुपागता। दर्शनं चैव संप्राप्ता तव सत्येन भामिनि
पतिव्रता च युक्ता च यमेन नियमेन च। दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम्
क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम्। ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात्
देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः । हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत्
समुद्रं च समासाद्य बहुयोजनविस्तृतम्। आससाद महाद्वीपं नानाद्रुमलतावृतम्
तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम्। शतयोजनविस्तीर्णं तावदेवायतं शुभम्
तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत । षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः
सरसस्तस्य मध्ये तु पद्मिनी महती शुभा । गौरेणोन्नतनालेन पद्मेन महता वृता
पद्मस्य भित्त्वा नालं च विवेश सहिता तया। बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम्
तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम् । सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा