एतदेवं विजानन्वै न दास्यामि शचीमिमाम्। इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियां
अस्या हितं भवेद्यच्च मम चापि हितं भवेत्। क्रियतां तत्सुरश्रेष्ठा नहि दास्याम्यहं शचीम्
अथ देवाः सगन्धर्वा गुरुमाहुरिदं वचः। कथं सुनीतं नु भवेन्मन्त्रयस्व बृहस्पते
नहुषं याचतां देवी किंचित्कालान्तरं शुभा। इन्द्राणि हितमेतद्धि तथाऽस्माकं भविष्यति
बहुविघ्नः सुराः कालः कालः कालं नयिष्यति। गर्वितो बलवांश्चापि नहुषो वरसंश्रयात्
ततस्तेन तथोक्ते तु प्रीता देवास्तथाब्रुवन्। ब्रह्मन्साध्विदमुक्तं ते हितं सर्वं दिवौकसाम्
एवमेतद्द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम्। ततः समस्ता इन्द्राणीं देवाश्चाग्निपुरोगमाः
त्वया जगदिदं सर्वं धृतं स्थावरजङ्गमम्। एकपत्न्यसि सत्या च गच्छस्व नहुषं प्रति
क्षिप्रं त्वामभिकामश्च विनशिष्यति पापकृत्। नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति
एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये। अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम्
दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम् । समहृष्यत दुष्टात्मा कामोपहतचेतनः
अथ तामब्रवीद्दृष्ट्वा नहुषो देवराट् तदा। त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते
भजस्व मां वरारोहे पतित्वे वरवर्णिनि। एवमुक्ता तु सा देवी नहुषेण पतिव्रता
प्रावेपत भयोद्विग्ना प्रवाते कदली यथा। प्रणम्य सा हि ब्रह्माणं शिरसा तु कृताञ्जलिः
देवराजमथोवाच नहुषं घोरदर्शनम् । कालमिच्छाम्यहं लब्धुं त्वत्तः कंचित्सुरेश्वर
न हि विज्ञायते शक्रः किं वा प्राप्तः क्व वा गतः। तत्त्वमेतत्तु विज्ञाय यदि न ज्ञायते प्रभो
ततोऽहं त्वामुपस्थास्ये सत्यमेतद्ब्रवीमि ते। एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत्
एवं भवतु सुश्रोणि यथा मामिह भाषसे। ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मरेः
नहुषेण विसृष्टा च निश्चक्राम ततः शुभा। बृहस्पतिनिकेतं च सा जगाम यशस्विनी
तस्याः संश्रुत्य च वचो देवाश्चाग्निपुरोगमाः । चिन्तयामासुरेकाग्राः शक्रार्थं राजसत्तम
देवदेवेन शङ्गम्य विष्णुना प्रभविष्णुना। ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः
ब्रह्मवध्याभिभूतो वै शक्रः सुरगणेश्वरः । गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्। त्वद्वीर्यनिहते वृत्रे वासवो ब्रह्महत्यया
वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश। तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत्
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम्। पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः। स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः
किंचित्कालमिदं देवा मर्षयध्वमतन्द्रिताः। श्रुत्वा विष्णोः शुभां सत्यां वाणीं ताममृतोपमाम्
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः । यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः
तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः । ववृते पावनार्थं वै ब्रह्महत्यापहो नृप
विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च। पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर