ततस्तु नाहुषो राजा शर्मिष्ठां प्राप्य बुद्धिमान्। रेमे च सुचिरं कालं तया शर्मिष्ठया सह
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी। द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत्
ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता। ययातिसहिता राजञ्जगाम रहितं वनम्
ददर्श च तदा तत्र कुमारान्देवरूपिणः। क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत्
कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः। वर्चसा रूपतश्चैव सदृशा मे मतास्तव
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत
तस्मिन्काले तु तच्छ्रुत्वा धात्री तेषां वचोऽब्रवीत्। किं न ब्रूत कुमारा वः पितरं वै द्विजर्षभम्
ऋषिश्च ब्राह्मणश्चैव द्विजातिश्चैव नः पिता। शर्मिष्ठा नानृतं ब्रूते देवयानि क्षमस्व नः
किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता। प्रब्रूत तत्त्वतः क्षिप्रं कश्चासौ क्व च वर्तते
प्रब्रूत मे यथा तथ्यं श्रोतुमिच्छामि तं ह्यहम्। एवमुक्ताः कुमारस्ते देवयान्या सुमध्यया
तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम्। शर्मिष्ठां मातरं चैव तथाऽऽचख्युश्च दारकाः
इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः। नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके
रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः। `अविब्रुवन्ती किंचिच्च राजानं चारुलोचना
नातिदूराच्च राजानं सा चातिष्ठदवाङ्मुखी। श्रुत्वा तेषां तु बालानां सव्रीड इव पार्थिवः
प्रतिवक्तुमशक्तोऽभूत्तूष्णींभूतोऽभवन्नृपः। दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति
बुद्ध्वा तु तत्त्वतो देवी शर्मिष्ठापिदमब्रवीत्। अभ्यागच्छति मां कश्चिदृषिरित्येवमब्रवीः
ययातिमेवं राजानं त्वं गोपायसि भामिनि। पूर्वमेव मया प्रोक्तं त्वया तु वृजिनं कृतम्
मदधीना सती कस्मादकार्षीर्विप्रियं मम। तमेवाऽऽसुरधर्मं त्वमास्थिता न बिभेषि मे
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि। न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते
यदा त्वया वृतो भर्ता वृत एव तदा मया। सखीभर्ता हि धर्मेण भर्ता भवति शोभने
पूज्यासि मम मान्या च ज्येष्ठा च ब्राह्मणी ह्यसि। त्वत्तोपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत्
त्वत्पित्रा मम गुरुणा सह दत्ते उभे शुभे। ततो भर्ता च पूज्यश्च पोष्यां पोषयतीह माम्
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम्। रमस्वेह यथाकामं देव्या शर्मिष्ठया सह
राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया। इति जज्वाल कोपेन देवयानी ततो भृशम्
निर्दहन्तीव सव्रीडां शर्मिष्ठां समुदीक्ष्य च। अपविध्य च सर्वाणि भूषणान्यसितेक्षणा
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम्। तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा
अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः। न्यवर्तत नचैव स्म क्रोधसंरक्तलोचना
अविब्रुवन्ती किंचित्सा राजानं साश्रुलोचना। अचिरादेव संप्राप्ता काव्यस्योशनसोऽन्तिकम्
सा तु दृष्ट्वै पितरमभिवाद्याग्रतः स्थिता। अनन्तरं यायातिस्तु पूजयामास भार्गवम्
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम्। शर्मिष्ठयाऽतिवृत्ताऽस्मि दुहित्रा वृषपर्वणः