इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति। अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः
आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् । तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह
रक्ष मां नहुषाद्ब्रह्मंस्त्वामस्मि शरणं गता। सर्वलक्षणसंपन्नां ब्रह्मंस्त्वं मां प्रभाषसे
देवराजस्य दयितामत्यन्तं सुखभागिनीम्। अवैधव्येन युक्तां चाप्येकपत्नीं पतिव्रदाम्
उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम्। नोक्तपूर्वं च भगवन्मृषा ते किंचिदीश्वर
तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम। बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम्
यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम् । द्रक्ष्यसे देवराजं तमिन्द्रं शीघ्रमिहागतम्
न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि ते। समानयिष्ये शक्रेण नचिराद्भवतीमहम्
अथ शुश्राव नहुष इन्द्राणीं शरणीं गताम्। बृहस्पतेरङ्गिरसश्रुक्रोध स नृपस्तदा
क्रुद्धं तु नहुषं दृष्ट्वा देवा ऋषिपुरोगमाः। अब्रुवन्देवराजानं नहुषं घोरदर्शनम्
देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो। त्रस्तं सासुरगन्धर्वं सकिंनरमहोरगम्
जहि क्रोधमिमं साधो न कुप्यन्ति भवद्विधाः । परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर
निवर्तय मनः पापात्परदाराभिमर्शनात्। देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय
एवमुक्तो न जग्राह तद्वचः काममोहितः । अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः
अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी । जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः
बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा । वैधर्म्याण्युपधाश्चैव स वः किं न निवारितः
उपतिष्ठतु देवी मामेतदस्या हितं परम्। युष्माकं च सदा देवाः शिवमेवं भविष्यति
इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते। जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर
इत्युक्त्वा तं तदा देवा ऋषिभिः सह भारत। तग्मुर्बृहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः
जानीमः शरणं प्राप्तामिन्द्राणीं तव वेश्मनि। दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम
ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते । प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम्
इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः । वृणोत्विमं वरारोहा भर्तृत्वे वरवर्णिनी
एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वनम् । उवाच रुदती दीना बृहस्पतिमिदं वचः
नाहमिच्छामि नहुषं पतिं देवर्षिसत्तम। शरणागतास्मि ते ब्रहंस्त्रायस्व महतो भयात्
शरणागतं न त्यजेयमिन्द्राणि मम निश्चयः। धर्मज्ञां सत्यशीलां च न त्यजेयमनिन्दिते
नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन्विशेषतः । श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम्
नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः । अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम्
न तस्य बीजं रोहति रोहकाले न तस्य वर्षं वर्षति वर्षकाले। भीतं प्रपन्नं प्रददाति शत्रवे न स त्रातारं लभते त्राणमिच्छन्
मोघमन्नं विन्दति चाप्यचेताः स्वर्गाल्लोकाद्धश्यति नष्टचेष्टः। भीतं प्रपन्नं प्रददाति यो वै न तस्य हव्यं प्रतिगृह्णन्ति देवाः
प्रमीयते चास्य प्रजा ह्यकाले सदा विवासं पितरोऽस्य कुर्वते। भीतं प्रपन्नं प्रददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम्