संक्षोभश्चापि सत्वानामनावृष्टिकृतोऽभवत्। देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः
अराजकं जगत्सर्वमभिभूतमुपद्रवैः। ततो भीताऽभवन्देवाः को नो राजा भवेदिति
दिवि देवर्षयश्चापि देवराजविनाकृताः। न स्म कश्चन देवानां राज्ये वै कुरुते मतिम्
ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदिवेश्वराः। अयं वै नहुपः श्रीमान्देवराज्येऽभिषिच्यताम्
तेजस्वी च यशस्वी च धार्मिकश्चैव नित्यदा। ते गत्वा त्वब्रुवन्सर्वे राजा नो भव पार्थिव
स तानुवाच नहुषो देवानृपिगणांस्तथा । पितृभिः सहितान्राजन्परिप्सन्हितमात्मनः
दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने। बलवाञ्ज्ञायतां कश्चिद्बलं शक्रे हि नित्यदा
तमब्रुवन्पुनः सर्वे देवा ऋषिपुरोगमाः । अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे
परस्परभयं घोरमस्माकं हि न संशयः । अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे
देवदानवयक्षाणामृषीणां रक्षसां तथा। पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम्
तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि। धर्मं पुरस्कृत्य सदा सरवलोकाधिपो भव
ब्रह्मर्षीश्चापि देवांश्च गोपायस्व त्रिविष्टपे
धर्मं पुरस्कृत्य तदा सर्वलोकाधिपोऽभवत्। सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे
धर्मात्मा सततं भूत्वा कामात्मा समपद्यत। देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च
कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते। सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च
अप्सरोभिः परिवृतो देवकन्यासमावृतः । नहुषो देवराजोऽथ क्रीडन्बहुविधं तदा
श्रृण्वन्दिव्या बहुविधाः कथाः श्रुतिमनोहराः । वादित्राणि च सर्वाणि गीतं च मधुरस्वनम्
विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः। ऋतवः षट्च देवेन्द्रं मूर्तिमन्त उपस्थिताः
मारुतः सुरभिर्वाति मनोज्ञः सत्वशीतलः । एवं विक्रीडतस्तस्य नहुषस्य दुरात्मनः
संप्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया। स तां संदृश्य दुष्टात्मा प्राह सर्वान्सभासदः
इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति। अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः
आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् । तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह
रक्ष मां नहुषाद्ब्रह्मंस्त्वामस्मि शरणं गता। सर्वलक्षणसंपन्नां ब्रह्मंस्त्वं मां प्रभाषसे
देवराजस्य दयितामत्यन्तं सुखभागिनीम्। अवैधव्येन युक्तां चाप्येकपत्नीं पतिव्रदाम्
उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम्। नोक्तपूर्वं च भगवन्मृषा ते किंचिदीश्वर
तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम। बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम्
यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम् । द्रक्ष्यसे देवराजं तमिन्द्रं शीघ्रमिहागतम्
न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि ते। समानयिष्ये शक्रेण नचिराद्भवतीमहम्
अथ शुश्राव नहुष इन्द्राणीं शरणीं गताम्। बृहस्पतेरङ्गिरसश्रुक्रोध स नृपस्तदा
क्रुद्धं तु नहुषं दृष्ट्वा देवा ऋषिपुरोगमाः। अब्रुवन्देवराजानं नहुषं घोरदर्शनम्