उवाच तानृषीन्सर्वान्प्रणम्य शिरसाऽसुरः । सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः
यद्ब्रूथ तच्छ्रुतं सर्वं ममापि श्रृणुतानघाः। सन्धिः कथं वै भविता मम शक्रस्य चोभयोः । तेजसोर्हि द्वयोर्देवाः सख्यं वै भविता कथम्
सकृत्सतां सङ्गतमीप्सितव्यं ततः परं भविता भव्यमेव। नातिक्रामेत्सत्पुरुषेण सङ्गतं तस्मात्सतां संगतमीप्सितव्यम्
दृढं सतां सङ्गतं चापि नित्यं ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीराः । महार्थवत्सत्पुरुषेण सङ्गतं तस्मात्सन्तं न जिघांसेत धीरः
इन्द्रः सतां संमतश्च निवासश्च महात्मनाम्। सत्यवादी ह्यनिन्द्यश्च धर्मवित्सूक्ष्मनिश्चयः
तेन ते सह शक्रेण सन्धिर्भवतु नित्यदा। एवं विश्वासमागच्छ मा ते भूद्बुद्धिरन्यथा
महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः। अवश्यं भगवन्तो मे माननीयास्तपस्विनः
ब्रवीमि यदहं देवास्तत्सर्वं क्रियते यदि। ततः सर्वं करिष्यामि यदूचुर्मां दिवौकसः
न शुष्केण न चाद्रेण नाश्मना न च दारुणा । न शस्त्रेण न चास्त्रेण न दिवा न तथा निशि
वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः । एवं मे रोचते सन्धिः शक्रेण सह नित्यदा
बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ। एवं वृत्ते तु सन्धाने वृत्रः प्रमुदितोऽभवत्
ततः सन्धिं मिथः कृत्वा ऋषयो दीप्ततेजसः। शक्रस्य सह वृत्रेण पुनर्जग्मुर्यथागतम्
युक्तः सदाऽभवच्चापि शक्रो हर्षसमन्वितः। वृत्रस्य वधसंयुक्तानुपायानन्वचिन्तयत्
अभिसन्धिर्महेन्द्रस्य सन्धिकर्मणि यः कृतः। ऋषिभिस्त्वीरितं यच्च महेन्द्रस्तदनुस्मरन्
छिद्रान्वेषी समुद्विग्नः सदा वसति देवराट्। स कदाचिन्समुद्रान्ते समपश्यन्महासुरम्
सन्ध्याकाल उपावृत्ते मुहूर्ते चातिदारुणे। ततः संचिन्त्य भगवान्वरदानं महात्मनः
सन्ध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न च। वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः
यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम्। महाबलं महाकायं न मे श्रेयो भविष्यति
एवं संचिन्तयन्नेव शक्रो विष्णुमनुस्मरन्। अथ फेनं तदाऽपश्यत् समुद्रे पर्वतोपमप्
नायं युष्को न चाद्रोऽयं न च शस्त्रमिदं तथा। एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति
सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान्। प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत्
निहते तु ततो वृत्रे दिशो वितिमिराऽभवन्। प्रववौ च शिवो वायुः प्रजाश्च जहृषुस्तथा
ततो देवाः सगन्धर्वा यक्षरक्षोमहोरगाः । ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः
नमस्कृतः सर्वभूतैः सर्वभूतान्यसान्त्वयत्। हत्वा शत्रुं प्रहृष्टात्मा वासवः सह दैवतैः
विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित्। ततो हते महावीर्ये वृत्रे देवभयङ्करे
अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः । त्रैशीर्षयाऽभिभूतश्च स पूर्वं ब्रह्महत्यया
महादेवस्य भूतैश्च स पुनर्ब्रह्महा इति। आक्रुष्टो निर्भयैर्भूयो व्रीडितो बलवृत्रहा
सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः। न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकर्मभिः
प्रतिच्छन्नोऽवसच्चाप्सु चेष्टमान इवोरगः । ततः प्रनष्टे देवेन्द्रे ब्रह्महत्या भयार्दिते
भूमिः प्रध्वस्तसंकाशा निर्वृक्षा शुष्ककानना । विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च