यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम। अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात्
अन्योन्यमेवमुक्त्वा तु संप्रहस्य च ते मिथः। जगाम भार्गवी वेश्म तथ्यमित्यवजग्मुषी
ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः। यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ
तस्मिन्काले तु राजर्षिर्ययातिः पृथिवीपतिः। माध्वीकरससंयुक्तां मदिरां मदवर्धनीम्
पाययामास शुक्रस्य तनयां रक्तपिङ्गलाम्। पीत्वा पीत्वा च मदिरां देवयानी मुमोह सा
रुदती गायमाना च नृत्यन्ती च मुहुर्मुहुः। बहु प्रलपती देवी राजानमिदमब्रवीत्
राजवद्रूपवेषौ ते किमर्थं त्वमिहागतः। केन कार्येण संप्राप्तो निर्जनं गहनं वनम्
द्विजश्रेष्ठ नृपश्रेष्ठो ययातिश्चोग्रदर्शनः। तस्मादितः पलायस्व हितमिच्छसि चेद्द्विज
इत्येवं प्रलपन्तीं तां देवयानीं तु नाहुषः। भर्त्सयामास वचनैरनर्हां पापवर्धनीम्
ततो वर्षवरान्मूकान्व्यङ्गान्वृद्धांश्च पङ्गुकान्। रक्षणे देवयान्याः स पोषणे च शशास तान्
ततस्तु नाहुषो राजा शर्मिष्ठां प्राप्य बुद्धिमान्। रेमे च सुचिरं कालं तया शर्मिष्ठया सह
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी। द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत्
ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता। ययातिसहिता राजञ्जगाम रहितं वनम्
ददर्श च तदा तत्र कुमारान्देवरूपिणः। क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत्
कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः। वर्चसा रूपतश्चैव सदृशा मे मतास्तव
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत
तस्मिन्काले तु तच्छ्रुत्वा धात्री तेषां वचोऽब्रवीत्। किं न ब्रूत कुमारा वः पितरं वै द्विजर्षभम्
ऋषिश्च ब्राह्मणश्चैव द्विजातिश्चैव नः पिता। शर्मिष्ठा नानृतं ब्रूते देवयानि क्षमस्व नः
किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता। प्रब्रूत तत्त्वतः क्षिप्रं कश्चासौ क्व च वर्तते
प्रब्रूत मे यथा तथ्यं श्रोतुमिच्छामि तं ह्यहम्। एवमुक्ताः कुमारस्ते देवयान्या सुमध्यया
तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम्। शर्मिष्ठां मातरं चैव तथाऽऽचख्युश्च दारकाः
इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः। नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके
रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः। `अविब्रुवन्ती किंचिच्च राजानं चारुलोचना
नातिदूराच्च राजानं सा चातिष्ठदवाङ्मुखी। श्रुत्वा तेषां तु बालानां सव्रीड इव पार्थिवः
प्रतिवक्तुमशक्तोऽभूत्तूष्णींभूतोऽभवन्नृपः। दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति
बुद्ध्वा तु तत्त्वतो देवी शर्मिष्ठापिदमब्रवीत्। अभ्यागच्छति मां कश्चिदृषिरित्येवमब्रवीः
ययातिमेवं राजानं त्वं गोपायसि भामिनि। पूर्वमेव मया प्रोक्तं त्वया तु वृजिनं कृतम्
मदधीना सती कस्मादकार्षीर्विप्रियं मम। तमेवाऽऽसुरधर्मं त्वमास्थिता न बिभेषि मे
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि। न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते
यदा त्वया वृतो भर्ता वृत एव तदा मया। सखीभर्ता हि धर्मेण भर्ता भवति शोभने