ततो युद्धं समभवद्वृत्रवासवयोर्महत्। संक्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम
ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् । अपावृत्याक्षिपद्वक्रे शक्रं कोपसमन्वितः
ग्रस्ते वृत्रेण शक्रे तु संभ्रान्तास्त्रिदिवेश्वराः। असृजंस्ते महासत्वा जृम्भिकां वृत्रनाशिनीम्
विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात्। स्वान्यङ्गान्यभिसंक्षिप्य निष्क्रान्तो बलनाशनः
ततः प्रभृति लोकस्य जृम्भिका प्राणिसंश्रिता। जहृषुश्च सुराः सर्वे शक्रं दृष्ट्वा विनिःसृतम्
ततः प्रववृते युद्धं वृत्रवासवयोः पुनः । संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ
यदा व्यवर्धत रणे वृत्रो बलसमन्वितः। त्वष्टुस्तेजोबलाविद्धस्तदा शक्रो न्यवर्तत
निवृत्ते च तदा देवा विषादमगमन्परम् । समेत्य सह शक्रेण त्वष्टुस्तेजोविमोहिताः
अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत। किं कार्यमिति वै राजन्विचिन्त्य भयमोहिताः
जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम्। उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः
सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम्। न ह्यस्य सदृशं किञ्चित्प्रतिघाताय यद्भवेत्
समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि सांप्रतम्। कथं नु कार्यं भद्रं वो दुर्धर्षः स हि मे मतः
तेजस्वी च महात्मा च युद्धे चामितविक्रमः । ग्रसेत्रिभुवनं सर्वं सदेवासुरमानुषम्
तस्माद्विनिश्चयमिमं शृणुध्वं त्रिदिवौकसः। विष्णोः क्षयमुपागम्य समेत्य च महात्मना
एवमुक्ते मघवता देवाः शर्षिगणास्तदा। शरण्यं शरमं देवं जग्मुर्विष्णुं महाबलम्
ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः। त्रयो लोकास्त्वया क्रान्तास्त्रिभिर्विक्रमणैः पुरा
अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे। बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः
त्वं प्रभुः सर्वदेवानां त्वया सर्वमिदं ततम्। त्वं हि देवो महादेव सर्वलोकनमस्कृतः
गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम। जगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन
अवश्यं करणीयं मे भवतां हितमुत्तमम्। तस्मादुपायं वक्ष्यामि यथाऽसौ नभविष्यति
गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक्। साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ
भविष्यति जयो देवाः शक्रस्य मम तेजसा । अदृश्यश्च प्रवेक्ष्यामि वज्रे ह्यस्यायुधोत्तमे
गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः । वृत्रस्य सह शक्रेण सन्धिं कुरुत माचिरम्
एवमुक्ते तु देवेन ऋषयस्त्रिदशास्तथा । ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम्
समीपमेत्य च यदा सर्व एव महौजसः। तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश
ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथा। ददृशुस्ते ततो वृत्रं शक्रेण सह देवताः
ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः। व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय
न च शक्नोषि निर्जेषुं वासवं बलिनां वर। युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह
पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानुषाः । सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा
अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान्। ऋषिवाक्यं निशम्याथ वृत्रःस तु महाबलः