तदरण्यं महाराज यत्रास्तेऽसौ निपातितः । स भीतस्तत्र तक्षाणं घटमानं शचीपतिः
अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः । क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम
महास्कन्धो भृशं ह्येष परशुर्नभविष्यति। कर्तुं चाहं न शक्ष्यामि कर्म राद्भिर्विगर्हितम्
मा भैस्त्वं शीघ्रमेतद्वै कुरुष्व वचनं मम। मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति
कं भवन्तमहं विद्यां घोरकर्माणमद्य वै। एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे
अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते। कुरुष्वैतद्यथोक्तं मे तक्षन्माऽत्र विचारय
मया हि निहतः शेते त्रिशिरास्त्वं च विद्वि वै
क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा। ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते
पश्चाद्धर्मं चरिष्यामि पावनार्थ सुदुश्चरम्। शत्रुरेष महावीर्यो वज्रेण निहतो मया
अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै। क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव
शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः । एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम्
एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनात्तदा। शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा
निकृत्तेषु ततस्तेषु निष्क्रामन्नण्डजास्त्वथ। कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः
येन वेदानधीते स्म पिबते सोममेव च। तस्माद्वक्रार्द्विनिश्चेरुः क्षिप्रं तस्य कपिञ्जलाः
येन सर्वा दिशो राजन्पिबन्निव नीरीक्षते। तस्माद्वक्राद्विनिश्चेरुस्तित्तिरास्तस्य पाण्डव
यत्सुरापं तु तस्यासीद्वक्रं त्रिशिरसस्तदा। कलविङ्काः समुत्पेतुः श्येनाश्च भरतर्षभ
ततस्तेषु निकृत्तेषु विज्वरो मघवानथ। `तक्ष्णे तथा वरं दत्त्वा प्रहृष्टस्त्रिदशेश्वरः
जगाम त्रिदिवं देवस्तक्षाऽपि स्वगृहान्ययौ। मेने कृतार्थमात्मानं हत्वा शत्रुं सुरारिहा
तक्षापि स्वगृहं गत्वा नैव शंसति कस्यचित्। अथैनं नाभिजानन्ति वर्षमेकं तथागतम्
अथ संवत्सरे पूर्णे भूताः पशुपतेः प्रभो। तमाक्रोशन्त मघवान्नः प्रभुर्ब्रह्महा इति
तत इन्द्रो व्रतं घोरमाचरत्पाकशासनः। तपसा च सुसंयुक्तः सह देवैर्मरुद्गणैः
समुद्रेषु पृथिव्यां च वनस्पतिषु स्त्रीषु च। विभज्य ब्रह्महत्यां च तान्वरैरप्ययोजयत्
वरदस्तु वरं दत्त्वा पृथिव्यै सागराय च। वनस्पतिभ्यः स्त्रीभ्यश्च ब्रह्महत्यां नुनोद ताम्
ततस्तु शुद्धो भगवान्देवैर्लोकैश्च पूजितः । इन्द्रस्थानमुपातिष्ठत्पूज्यमानो महर्षिभिः
त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम्। क्रोधसंरक्तनयन इदं वचनमब्रवीत्
तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम्। विनाऽपराधेन यतः पुत्रं हिंसितवान्मम
तस्माच्छक्रविनाशाय वृत्रमुत्पादयाम्यहम्। लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महम् । स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः
उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः । अग्नौ हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह
इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम। सोऽवर्घत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः
किं करोमीति चोवाच कालसूर्य इवोदितः। शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः