दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर। देवैरपि हि दुःखानि प्राप्तानि जगतीपते
इन्द्रेण श्रूयते राजन्सभार्येण महात्मना । अनुभूतं महद्दुःखं देवराजेन भारत
कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना । दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम्
शृणु राजन्पुरावृत्तमितिहासं पुरातनम्। सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत
त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः । स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत्
ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः । तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः
वेदानेकेन सोऽधीते सुरामेकेन चापिबत्। एकेन च दिशः सर्वाः पिबन्निव निरीक्षते
स तपस्वी मुदुर्दान्तो धर्मे तपसि चोद्यतः । तपस्तस्य महत्तीव्रं सुदुश्चरमरिन्दम
तस्य दृष्ट्वा तपोवीर्यं सत्यं चामिततेजसः । विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति
कथं सज्जेच्च भोगेषु न च तप्येन्महत्तपः । विवर्धमानस्त्रिशिराः सर्वं हि भुवनं ग्रसेत्
इति संचिन्त्य बहुधा बुद्धिमान्भरतर्षभ । आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने
यथा स सज्जेत्रिशिराः कामभोगेषु वै भृशम् । क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम्
शृङ्गारवेषाः सुश्रोण्यो हारैर्युक्ता मनोहरैः । हावभावसमायुक्ताः सर्वाः सौन्दर्यशोभिताः
प्रलोभयत भद्रं वः शमयध्वं भयं मम। अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः
तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने। यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन
निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः। तं प्रलोयितुं देव गच्छामः सहिता वयम्
इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम्। तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः
नृत्तं संदर्शयामासुस्तथैवाङ्गेषु सौष्ठवम्। नाभ्यगच्छत्प्रहर्षं ताः स पश्यन्सुमहातपाः
इन्द्रियाणि वशे कृत्वा पूर्णसागरसन्निभः। तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः
कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन्। न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो
यत्ते कार्यं महाभाग क्रियतां तदनन्तरम् । संपूज्याप्सरसः शक्रो विसृज्य च महामतिः
चिन्तयामास तस्यैव वधोपायं युधिष्ठिर। स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान्
विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत्। वज्रमस्य क्षिपाम्यद्य स क्षिप्रं नभविष्यति
शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा। शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम्
अथ वैश्वानरनिभं घोररूपं भयावहम्। मुमोच वज्रं संक्रुद्धः शक्रस्त्रिशिरसं प्रति
स पपात हतस्तेन वज्रेण दृढमाहतः। पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले
तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम्। न शर्म लेभे देवेन्द्रो दीपिततस्तस्य तेजसा
हतोऽपि दीप्ततेजाः स जीवन्निव हि दृश्यते। घातितस्य शिरांस्याजौ जीवन्तीवाद्भुतानि वै
शिरांसि तस्याजायन्त त्रीण्येव शकुनास्त्रयः। तित्तिरिः कलविङ्कश्च तथैव च कपिञ्जलः । विश्वरूपशिरांस्येव जायन्ते तानि भारत
ततोऽतिभीतगात्रस्तु शक्र आस्ते विचारयन्। अथाजगाम परशुं स्कन्धेनादाय वर्धकिः