अज्ञातवासं घोरं च वसता दुष्करं कृतम् । दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत
सत्ये तपसि दाने च तव बुद्धिर्युधिष्ठिर । क्षमा दमश्चाहिंसा च सत्यं चैव युधिष्ठिर
अद्भुतश्च पुनर्लोकस्त्वयि राजन्प्रतिष्ठितः। मृदुर्वदान्यो ब्रह्मण्यो दान्तो धर्मपरायणः
धर्मास्ते विदिता राजन्बहवो लोकसाक्षिकाः । सर्वं जगदिदं तात विदितं ते परन्तप
मुदितश्च पुनर्लोकस्त्वयि राजन्प्रतिष्ठिते । दिष्ट्या कृच्छ्रमिदं राजन्पारितं भरतर्षभ
दिष्ट्या पश्यामि राजेन्द्र धर्मात्मानं सहानुगम्। निस्तीर्णदुष्करं राजंस्त्वां धर्मनिचयं प्रभो
ततोऽस्याकथयद्राजा दुर्योधनसमागमम्। तच्च शुश्रूषितं सर्वं वरदानं च भारत
सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना । दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम्
एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते । राजन्नकर्तव्यमपि कर्तुमर्हसि सत्तम
मम त्ववेक्षया वीर शृणु विज्ञापयामि ते। भवानिह महाराज वासुदेवसमो युधि
कर्णार्जुनाभ्यां संप्राप्ते द्वैरथे राजसत्तम । कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः
तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि। तेजोवधश्च ते कार्यः सौतेरस्मञ्जयावह्नः । अकर्तव्यमपि ह्येतत्कर्मुमर्हसि मातुल
श्रृणु पाण्डव भद्रं ते यद्ब्रवीषि महात्मनः । तेजोवधनिमित्तं मां सूतपुत्रस्य सङ्गमे
अहं तस्य भविष्यामि सङ्घ्रामे सारथिर्ध्रुवम्। वासुदेवेन हि समं नित्यं मां सोऽभिमन्यतो
तस्याहं कुरुशार्दूल प्रतीपमहितं वचः। ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे
यथा स हृतदर्पश्च हृततेजाश्च पाण्डव । भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते
एवमेतत्करिष्यामि यथा तात त्वमात्थ माम्। यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम्
यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह। परुषाणि च वाक्यानि सूतपुत्रकृतानि वै
जटासुरात्परिक्लेशः कीचकाच्च महाद्युते। द्रौपद्याऽधिगतं सर्वं दमयन्त्या यथाऽशुभम्
सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति। नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः
दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर। देवैरपि हि दुःखानि प्राप्तानि जगतीपते
इन्द्रेण श्रूयते राजन्सभार्येण महात्मना । अनुभूतं महद्दुःखं देवराजेन भारत
कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना । दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम्
शृणु राजन्पुरावृत्तमितिहासं पुरातनम्। सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत
त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः । स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत्
ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः । तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः
वेदानेकेन सोऽधीते सुरामेकेन चापिबत्। एकेन च दिशः सर्वाः पिबन्निव निरीक्षते
स तपस्वी मुदुर्दान्तो धर्मे तपसि चोद्यतः । तपस्तस्य महत्तीव्रं सुदुश्चरमरिन्दम
तस्य दृष्ट्वा तपोवीर्यं सत्यं चामिततेजसः । विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति
कथं सज्जेच्च भोगेषु न च तप्येन्महत्तपः । विवर्धमानस्त्रिशिराः सर्वं हि भुवनं ग्रसेत्