यथैतानीतिहासानां तथा भारतमुच्यते। यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः
अक्षय्यमन्नपानं वै पितृंस्तस्योपतिष्ठते। इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति। कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते
भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम्। य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि
अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः। यश्चैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः
स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः। एकतश्चतुरो वेदा भारतं चैतदेकतः
पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम्। चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा
तदाप्रभृति लोकेऽस्मिन्महाभारतमुच्यते। महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम्
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते
तपो नकल्कोऽध्ययनं नकल्कः स्वाभाविको वेदविधिर्नकल्कः। प्रसह्य वित्ताहरणं नकल्क- स्तान्येव भावोपहतानि कल्कः
समन्तपञ्चकमिति यदुक्तं सूतनन्दन। एतत्सर्वं यथातत्त्वं श्रोतुमिच्छामहे वयम्
शृणुध्वं मम भो विप्रा ब्रुवतश्च कथाः शुभाः। समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः। असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः। समन्तपञ्चके पञ्च चकार रुधिरह्रदान्
स तेषु रुधिराम्भःसु ह्रदेषु क्रोधमूर्च्छितः। पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम्
अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन्। राम राम महाभाग प्रीताः स्म तव भार्गव
अनया पितृभक्त्या च विक्रमेण तव प्रभो। वरं वृणीष्व भद्रं ते यमिच्छसि महाद्युते
यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि। यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया
अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः। ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः
एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन्। तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्। समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते। तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः
अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत्। समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते। अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया
समेत्य तं द्विजास्ताश्च तत्रैव निधं गताः। एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः
पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः। तदेतत्कथितं सर्वं मया ब्राह्मणसत्तमाः।। यथा देशः स विख्यातस्त्रिषु लोकेषु सुव्रताः
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन। एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्
अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम्। यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव
एको रथो गजश्चैको नराः पञ्च पदातयः। त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः। त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते