शिल्पिभिर्विविधैश्चैव क्रीडास्तत्र प्रयोजिताः । तत्र माल्यानि मांसानि भक्ष्यं पेयं च सत्कृतम्
कूपाश्च विविधाकारा औदकानि गृहाणि च ।। स ताः सभाः समासाद्य पूज्यमानो यथाऽमरः
दुर्योधनस्य सचिवैर्देशे देशे समन्ततः ।। आजगाम सभामन्यां देवावसथवर्चसम्
स तत्र विषयैर्युक्तैः कल्याणैरतिमानुषैः ।। मेनेऽभ्यधिकमात्मानमवमेने पुरन्दरम्
पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः ।। युधिष्ठिरस्य पुरुषाः केऽत्र चक्रुः सभा इमाः
आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः ।। प्रदेयमेषां दास्यामि कुन्तीपुत्रोऽनुमन्यताम्
ततः प्रहृष्टं राजानं ज्ञात्वा ते सचिवास्तदा' दुर्योधनाय तत्सर्वं कथयन्ति स्म विस्मिताः
संप्रहृष्टो यदा शल्यो दिदित्सुरपि जीवितम् । गूढो दुर्योधनस्तत्र दर्शयामास मातुलम्
तं दृष्ट्वा मद्रराजश्च ज्ञात्वा यत्नं च तस्य तम्। परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो ध्रियतामिति
सत्यवाग्भव कल्याण वरो वै मम दीयताम्। सर्वसेनाप्रणेता वै भवान्भवितुमर्हति
यथैव पाण्डवास्तुभ्यं तथैव भवतो ह्यहम्। अनुमान्यं च पाल्यं च भक्तं च भज मां विभो
कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति। कृतमित्येव गान्धारिः प्रत्युवाच पुनःपुनः
गच्छ दुर्योधन पुरं स्वकमेव नरर्षभ । अहं गमिष्ये द्रुष्टुं वै युधिष्ठिरमरिंदमम्
दृष्ट्वा युधिष्ठिरं राजन्क्षिप्रमेष्ये नराधिप । अवश्यं चापि द्रष्टव्यः पाण्डवः पुरुषर्षभः
क्षिप्रामागम्यतां राजन्पाण्डवं वीक्ष्य पार्थिव । त्वय्यधीनाः स्म राजेन्द्र वरदानं स्मरस्व नः
क्षिप्रमेष्यामि भद्रं ते गच्छस्व स्वपुरं नृप। ` दृष्ट्वा तु पाण्डवान्राजन्न मिथ्या कर्तुमुत्सहे
पर्यष्वजेतामन्योन्यं शल्यदुर्योधनावुभौ
स तथा शल्यमामन्त्र्य पुरायात्स्वकं पुरम्। शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत्
उपप्लाव्यं स गत्वा तु स्कन्धावारं प्रविश्य च। पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह
चिरात्तु दृष्ट्वा राजानं मातुलं समितिञ्जयम्। आसनेभ्यः समुत्पेतुः सर्वे सहयुधिष्ठिराः
तथा भीमार्जुनौ हृष्टौ स्वस्त्रीयौ च यमावुभौ । द्रौपदी च सुभद्रा च अभिमन्युश्च भारत
समेत्य च महापाहुं शल्यं पाण्डुसुतस्तदा । पाद्यमर्घ्यं च गां चैव प्रतिग्राह्य पुरोधसा
कताञ्जलिरदीनात्मा धर्मात्मा शल्यमब्रवीत्। स्वागतं तेऽस्तु वै राजन्नेतदासनमास्यताम्
ततो न्यषीदच्छल्यश्च काञ्चने परमासने । तत्र पाद्यथार्घ्यं च न्यवेदयत पाण्डवः
दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै। अवाप्स्यसि फलं राजन्हत्वा शत्रून्परन्तप
विदितं ते महाराज लोकतन्त्रं नराधिप । तस्माल्लोककृतं किञ्चित्तव तात न विद्यते
निवेद्य चार्घ्यं विधिवन्मद्रराजाय भारत। कुशलं पाण्डवोऽपृच्छच्छल्यं सर्वसुखावहम्
स तैः परिवृतः सर्वैः पाण्डवैर्धर्मचारिभिः । आसने चोपविष्टः स शल्यः पार्थमथाब्रवीत्
कुशलं राजशार्दूल सर्वत्र कुरुनन्दन । अरण्यवासाद्दिष्ट्याऽसि विमुक्तो जयतां वर
दुष्करं ते कृतं राजन्निर्जने गहने वने। भ्रातृभिः सह कौन्तेय कृष्णाया चानयाऽनघ