ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः । अयुध्यमानः संग्रामे न्यस्तशस्त्रोऽहमेकतः
आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम्। तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः
एतद्विदित्वा कौन्तेय विचार्य च पुनः पुनः । तान्वा वरय साहाय्ये मां साचिव्येऽथवा पुनः
एवमुक्तस्तु कृष्णेन कुन्तीपुत्रे धनञ्जयः। अयुध्यमानं संग्रामे वरयामास केशवम्
नारायणममिघ्नं कामाज्जातमजं नृषु । सर्वक्षत्रस्य पुरतो देवदानवयोरपि
दुर्योधनस्तु तत्सैन्यं सर्वमावरयत्तदा । सहस्राणां महस्रं तु योधानां प्राप्य भारत
कृष्णं चापहृतं ज्ञात्वा संप्राप परमां मुदम् । दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः
ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् । सर्वं चागमने हेतुं स तस्मै संन्यवेदयत्। प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः
विदितं ते नरव्याघ्र सर्वं भवितुमर्हति। यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा
निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन। मया संबन्धकं तुल्यमिति राजन्पुनःपुनः
न च तद्वाक्यमुक्तं वै केशवं प्रत्यपद्यत। न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम्
नाहं सहायः पार्थस्य नापि दुर्योधनस्य वै । इति मे निश्चिता बुद्धिर्वासुदेवमवेक्ष्य ह
जातोऽसि भारते वंशे सर्वपार्थिवपूजिते । गच्छ युध्यस्व धर्मेण क्षात्रेण पुरुषर्षभ
इत्येवमुक्तस्तु तदा परिष्वज्य हलायुधम्। कृष्णं चापि महाबाहुमामन्त्र्य भरतर्षभ
सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः । कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा
स तेन सर्वसैन्येन भीमेन कुरुनन्दनः । वृतः परिययौ हृष्टः सुहृदः संप्रहर्षयन्
ततः पीताम्बरधरो जगत्स्रष्टा जनार्दनः । गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत्
भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशयः । निहन्तुमहमष्येकः समर्थः पुरुषर्षभः
भवांस्तु कीर्तिमाँल्लोके तद्यशस्त्वां गमिष्यति। यशसां चाहमप्यर्थी तस्मादसि मया वृतः
सारथ्यं तु त्वया कार्यमिति मे मानसं सदा। चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति
उपपन्नमिदं पार्थ यत्स्पर्धसि मया सह। सारथ्यं ते करिष्यामि कामः संपद्यतां तव
एवं प्रमुदितः पार्थः कुष्णेन सहितस्तदा। वृतो दाशार्हप्रवरैः पुनरायाद्युधिष्ठिरम्
शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः। अभ्यात्पाण्डवान्राजन्सह पुत्रैर्महारथैः
तस्य सेनानिवेशोऽभूदध्वर्धमिव योजनम् । तथा हि विपुलां सेनां बिभर्ति स नरर्षभः
अक्षौहिणीपती राजन्महावीर्यपराक्रमाः। विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः
विचित्राभरणाः सर्वे विचित्ररथवाहनाः । विचित्रस्रग्धराः सर्वे विवित्राम्बरभूषणाः
स्वदेशवेषाभरणा वीराः शतसहस्रशः। तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः
व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम् । शनैर्विश्रामयन्सेनां स ययौ यत्र पाण्डवः
ततो दुर्योधनः श्रुत्वा महात्मानं महारथम् । उपायान्तमभिद्रुत्य स्वयमानर्च भरत
कारयामास पूजार्थं तस्य दुर्योधनः सभाः । रमणीयेषु देशेषु रत्नचित्राः स्वलङ्कृताः