शिष्यैः परिवृतो विद्वान्नीतिशास्त्रार्थकोविदः । पाण्डवानां हितार्थाय कौरवान्प्रतिजग्मिवान्
पुरोहितं ते प्रस्थाप्य नगरं नागसाह्वयम्। दूतान्प्रस्थापयामासुः पार्थिवेभ्यस्ततस्ततः
प्रस्थाप्य दूतानन्यत्र द्वारकां पुरुषर्षभः । स्वयं जगाम कौरव्यः कुन्तीपुत्रो धनञ्जयः
गते द्वारवतीं कृष्ण बलदेवे च माधवे। सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तदा
सर्वमागमयामास पाण्डवानां विचेष्टितम् । धृतराष्ट्रात्मजो राजा गूढैः प्रणिहितैश्चरैः
स श्रुत्वा माधवं यान्तं सदश्वैरनिलोपमैः । बलेन नातिमहता द्वारकामभ्ययात्पुरीम्
तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः । आनन्रतनगरीं रम्यां जगामाशु धनञ्जयः
तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ । सुप्तं ददृशतुः कृष्णं शयानं चाभिजग्मतुः
दुर्योधनस्तु प्रथमं वासुदेवमुपाश्रयत् । उच्छीर्षतश्च कृष्णस्य निषसाद वरासने
ततः किरीटी तस्यानु प्रविवेश महामनाः । पश्चार्धे तु स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः
प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनाम्। सिंहासनगतं पश्चात्परिवृत्य च दृष्टवान्
स तयोः स्वागतं कृत्वा यथावत्प्रतिपूज्य तौ । तदागमनजं हेतुं पप्रच्छ मधुसूदनः
ततो दुर्योधनः कृष्णामुवाच प्रहसन्निव। विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति
समं हि भवतः सख्यं मम चैवार्जुनेऽपि च। तथा संबन्धकं तुल्यमस्माकं त्वयि माधव
अहं चाभिगतं सन्तो भजन्ते पूर्वसारिणः ।। त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन
सततं संमतश्चैव सद्वृत्तमनुपालय
भवानभिगतः पूर्वमत्र मे नास्ति संशयः। दृष्टस्तु प्रथमं राजन्मया पार्थो धनञ्जयः
तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात् । साहाय्यमुभयोरेव करिष्यामि सुयोधन
प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः। तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनञ्जयः
मत्संहननतुल्यानां गोपानामर्बुदं महत्। नारायणा इति ख्याताः सर्वे संग्रामयोधिनः
ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः । अयुध्यमानः संग्रामे न्यस्तशस्त्रोऽहमेकतः
आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम्। तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः
एतद्विदित्वा कौन्तेय विचार्य च पुनः पुनः । तान्वा वरय साहाय्ये मां साचिव्येऽथवा पुनः
एवमुक्तस्तु कृष्णेन कुन्तीपुत्रे धनञ्जयः। अयुध्यमानं संग्रामे वरयामास केशवम्
नारायणममिघ्नं कामाज्जातमजं नृषु । सर्वक्षत्रस्य पुरतो देवदानवयोरपि
दुर्योधनस्तु तत्सैन्यं सर्वमावरयत्तदा । सहस्राणां महस्रं तु योधानां प्राप्य भारत
कृष्णं चापहृतं ज्ञात्वा संप्राप परमां मुदम् । दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः
ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् । सर्वं चागमने हेतुं स तस्मै संन्यवेदयत्। प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः
विदितं ते नरव्याघ्र सर्वं भवितुमर्हति। यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा
निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन। मया संबन्धकं तुल्यमिति राजन्पुनःपुनः