संकुला च तदा भूमिश्चतुरङ्गवलान्विता। बलानि तेषां वीराणामागच्छन्ति ततस्ततः
चालयन्तीव गां देवीं सपर्वतवनामिमाम्। ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम्। कुरुभ्यः प्रेषयामास युधिष्ठिरमते स्थितः
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः। बुद्धिमत्सु नराः श्रेष्ठा नरेष्वपि द्विजातयः
द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः। कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः
स भवान्कृबुद्धीनां प्रधान इति मे मतिः । कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च। प्रज्ञया सदृशश्चासि शुक्रेणाङ्गिरसेन च
विदितं चापि ते सर्वं यथावृत्तः स कौरवः । पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः
धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः । विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते
शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत् । अनक्षज्ञं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम्
ते तथा वञ्चयित्वा तु धर्मराजं युधिष्ठिरम् । न कस्यांचिदवस्थायां राज्यं दास्यन्ति वै स्वयम्
भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः । मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति
विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम्। भीष्मद्रोणकृपादीनां भेदं संजनयिष्यति
अमात्येषु च भिन्नेषु योधेषु विमुखेषु च। पुनरेकत्र करणं तेषां कर्म भविष्यति
एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः। सेनाकर्म करिष्यन्ति द्रव्याणां चैव सञ्चयम्
भिद्यमानेषु च स्वेषु लम्बमाने तथा त्वयि। न तथा ते करिष्यन्ति सेनाकर्म न संशयः
एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते। संगत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव
स भवान्धर्मयुक्तश्च धर्म्यं तेषु समाचरन् । कृपालुषु परिक्लेशान्पाण्डवीयान्प्रकीर्तयन्
वृद्धेषु कुलधर्मं च ब्रुवन्पूर्वैरनुष्ठितम् । विभेत्स्यति मनांस्येषमिति मे नात्र संशयः
न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित् । दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः
स भवान्पुष्ययोगेन मुहूर्तेन जयेन च। कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये
तथाऽनुशिष्टः प्रययौ द्रुपदेन महात्मना। पुरोधा वृत्तसंपन्नो नगरं नागसाह्वयम्
शिष्यैः परिवृतो विद्वान्नीतिशास्त्रार्थकोविदः । पाण्डवानां हितार्थाय कौरवान्प्रतिजग्मिवान्
पुरोहितं ते प्रस्थाप्य नगरं नागसाह्वयम्। दूतान्प्रस्थापयामासुः पार्थिवेभ्यस्ततस्ततः
प्रस्थाप्य दूतानन्यत्र द्वारकां पुरुषर्षभः । स्वयं जगाम कौरव्यः कुन्तीपुत्रो धनञ्जयः
गते द्वारवतीं कृष्ण बलदेवे च माधवे। सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तदा
सर्वमागमयामास पाण्डवानां विचेष्टितम् । धृतराष्ट्रात्मजो राजा गूढैः प्रणिहितैश्चरैः
स श्रुत्वा माधवं यान्तं सदश्वैरनिलोपमैः । बलेन नातिमहता द्वारकामभ्ययात्पुरीम्
तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः । आनन्रतनगरीं रम्यां जगामाशु धनञ्जयः
तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ । सुप्तं ददृशतुः कृष्णं शयानं चाभिजग्मतुः
दुर्योधनस्तु प्रथमं वासुदेवमुपाश्रयत् । उच्छीर्षतश्च कृष्णस्य निषसाद वरासने
ततः किरीटी तस्यानु प्रविवेश महामनाः । पश्चार्धे तु स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः