स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः। सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान्
यदि तावच्छमं कुर्यन्न्यायेन कुरुपुङ्गवः। न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः
अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः । अन्येषां प्रेषयित्वा च पश्चादस्मान्सभाह्वये
ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः । निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि
ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः । गृहान्प्रस्थापयामास सगणं सहबान्धवम्
द्वारकं तु गते कृष्णे युधिष्ठिरपुरोगमाः। चक्रुः साङ्घ्रामिकं सर्वं विराटश्च महीपतिः
ततः संप्रेषयामास विराटः सह बान्धवैः । सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः
वचनात्कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते । समाजग्मुर्महीपालाः संप्रहृष्टा महाबलाः
तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम् । धृतराष्ट्रसुताश्चापि समानिन्युर्महीपतीन्
समाकुला मही राजन्कुरुपाण्डवकारणात्। तदा समभवत्कृत्स्ना संप्रयाणे महीक्षिताम्
संकुला च तदा भूमिश्चतुरङ्गवलान्विता। बलानि तेषां वीराणामागच्छन्ति ततस्ततः
चालयन्तीव गां देवीं सपर्वतवनामिमाम्। ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम्। कुरुभ्यः प्रेषयामास युधिष्ठिरमते स्थितः
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः। बुद्धिमत्सु नराः श्रेष्ठा नरेष्वपि द्विजातयः
द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः। कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः
स भवान्कृबुद्धीनां प्रधान इति मे मतिः । कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च। प्रज्ञया सदृशश्चासि शुक्रेणाङ्गिरसेन च
विदितं चापि ते सर्वं यथावृत्तः स कौरवः । पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः
धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः । विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते
शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत् । अनक्षज्ञं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम्
ते तथा वञ्चयित्वा तु धर्मराजं युधिष्ठिरम् । न कस्यांचिदवस्थायां राज्यं दास्यन्ति वै स्वयम्
भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः । मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति
विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम्। भीष्मद्रोणकृपादीनां भेदं संजनयिष्यति
अमात्येषु च भिन्नेषु योधेषु विमुखेषु च। पुनरेकत्र करणं तेषां कर्म भविष्यति
एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः। सेनाकर्म करिष्यन्ति द्रव्याणां चैव सञ्चयम्
भिद्यमानेषु च स्वेषु लम्बमाने तथा त्वयि। न तथा ते करिष्यन्ति सेनाकर्म न संशयः
एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते। संगत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव
स भवान्धर्मयुक्तश्च धर्म्यं तेषु समाचरन् । कृपालुषु परिक्लेशान्पाण्डवीयान्प्रकीर्तयन्
वृद्धेषु कुलधर्मं च ब्रुवन्पूर्वैरनुष्ठितम् । विभेत्स्यति मनांस्येषमिति मे नात्र संशयः
न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित् । दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः
स भवान्पुष्ययोगेन मुहूर्तेन जयेन च। कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये
तथाऽनुशिष्टः प्रययौ द्रुपदेन महात्मना। पुरोधा वृत्तसंपन्नो नगरं नागसाह्वयम्