बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च। सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः
शकानां पह्लवानां कर्णवेष्टश्च पार्थिवः ।। सुरारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः
नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् । दुर्जयो दन्तवक्रश्च रुक्मी च जनमेजयः
आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः । भूरितेजा देवकश्च एकलव्यः सहात्मजैः
कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् । काम्भोजा ऋषिका ये च पश्चिमानूपकाश्च ये
जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः ।। जानकिश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः
जानकिश्च सुशर्मा च मणिमान्योतिमत्सकः। पांशुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान्
तुण्डश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान्। अपराजितो निषादश्च श्रेणिमान्वसुमानपि
बृहद्बलो महौजाश्च बाहुः परपुरंजयः । समुद्रसेनो राजा च सह पुत्रेण वीर्यवान्
उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः । श्रुतायुश्च दृढायुश्च साल्वपुत्रश्च वीर्यवान्
कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः । एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते
अयं च ब्राह्मणो विद्वान्मम राजन्पुरोहितः। प्रेष्यतां धृतराष्ट्राय वाक्यमस्मै प्रदीयताम्
यथा दुर्योधनो वाच्यो यथा सान्तनवो नृपः । धृतराष्ट्रो यथा वाच्यो द्रोणश्च रथिनां वरः
द्रुपदेनैवमुक्ते तु वाक्ये वाक्यविदां वरः। वसुदेवसुतस्तत्र पृष्णिसिंहोऽब्रवीदिदम्
उपपन्नमिदं वाक्यं सोमकानां धुरंधरे। अर्थसिद्धिकरं राज्ञः पाण्डवस्यामितौजसः
एतच्च पूर्वं कार्यं नः सुनीतिमभिकाङ्क्षताम्। अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः
किं तु संबन्धकं तुल्यमस्माकं कुरुपाण्डुषु। यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च
ते विवाहार्थमानीता वयं सर्वे तथा भवान् । कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति
भवान्वृद्धतमो राज्ञां वयसा च श्रुतेन च। शिष्यवत्ते वयं सर्वे भवामेह न संशयः
भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते। आचार्ययोः सखा चासि द्रोणस्य च कृपस्व च
स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः। सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान्
यदि तावच्छमं कुर्यन्न्यायेन कुरुपुङ्गवः। न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः
अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः । अन्येषां प्रेषयित्वा च पश्चादस्मान्सभाह्वये
ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः । निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि
ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः । गृहान्प्रस्थापयामास सगणं सहबान्धवम्
द्वारकं तु गते कृष्णे युधिष्ठिरपुरोगमाः। चक्रुः साङ्घ्रामिकं सर्वं विराटश्च महीपतिः
ततः संप्रेषयामास विराटः सह बान्धवैः । सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः
वचनात्कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते । समाजग्मुर्महीपालाः संप्रहृष्टा महाबलाः
तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम् । धृतराष्ट्रसुताश्चापि समानिन्युर्महीपतीन्
समाकुला मही राजन्कुरुपाण्डवकारणात्। तदा समभवत्कृत्स्ना संप्रयाणे महीक्षिताम्