यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह । अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत्
समाहूय तु राजानं क्षत्रधर्मरतं सदा। निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम्
कथं प्रणिपतेच्चायमिह कृत्वा पणं परम्। वनवासाद्विमुक्तरतु प्राप्तः पैतामहं पदम्
यद्ययं परवित्तानि कामयेत युधिष्ठिरः। एवमप्ययमत्यन्तं परान्नार्हति याचितुम्
कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः। निवृत्तवनवासांस्तान्य आहुर्विदिता इति
अनुनीता हि भीष्मेण द्रोणेन विदुरेण च। न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु
अहं तु ताञ्छितैर्बाणैरनुनीय रणे बलात्। पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः
अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः। गमिष्यन्ति सहामात्या यमस्य सदनं प्रति
न हि ते युयुधानस्य संरब्धस्य युयुत्सतः। वेगं समर्थाः संसोद्धुं वज्रस्येव महीधराः
को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि । मां चापि विषहेत्क्रुद्धं कश्च भीमं दुरासदम्
यमौ च दृढधन्वानौ यमकल्पौ महाद्युती। विराटद्रुपदौ वीरौ यमकालोपमद्युती
को जिजीविषुरासादेद्धृष्टद्युम्नं च पार्षतम्। पञ्चैतान्पाण्डवेयांस्तु द्रौपद्याः कीर्तिवर्धनान्
समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् । सौभद्रं च महेष्वासममरैरपि दुःसहम्
गदप्रद्युम्नसाम्बांश्च कालसूर्यानलोपमान्। ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह
कर्णं चैव निहत्याजावभिषेक्ष्याम पाण्डवम् । नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाऽऽततायिनः
अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम्। हृद्भतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः
धार्तराष्ट्रो ह्ययुद्धेन न राज्यं दातुमिच्छति। अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः। निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले
एवमेतन्महाबाहो भविष्यति न संशयः। न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति
अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः। भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ
बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते। एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता
न तु वाच्यो मृदुवचो धार्तराष्ट्रः कथंचन । नहि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम
गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् । मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि
मृदुं वै मन्यते पापो भाषमाणमशक्तिकम् । हितमर्थं न जानीयादबुद्धिर्मार्दवे सति
एतच्चैव करिष्यामो यत्नश्च क्रियतामिह । प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः
शल्यस्य धृष्टकेतोश्च जयत्सेनस्य वा विभो । केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः
स च दुर्योधनो नूनं प्रेषयिष्यति सर्वशः । पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदनम्
तत्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने । महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः
शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः । भगदत्ताय राज्ञे च पूर्वसागरवासिने
अमितौजसे तथोग्राय हार्दिक्यायान्धकाय च। दीर्घप्रज्ञाय शूराय रोचमानाय वा विभो
आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः । सेनजित्प्रतिबिन्ध्यश्च चित्रवर्मा सुवास्तुकः