यत्तु स्वयं पाण्डुसुतैर्विजित्य समाहृतं भूमिपतीन्प्रपीड्य तत्प्रार्थयन्ते पुरुषप्रवीराः कुन्तीसुता माद्रवतीसुतौ च
बलाभियुक्तैर्विविधैरुपायैः संप्रार्थिता हन्तुममित्रसङ्घैः। राज्यं जिहीर्षद्भिरसद्भिरुग्रैः सर्वं च तद्वो विदितं यथावत्
तेषां च लोभं प्रसमीक्ष्य वृद्धं धर्मज्ञतां चापि युधिष्ठिरस्य। संबन्धितां चापि समीक्ष्य तेषां मतिं कुरुध्वं सहिताः पृथक्व
इमे च सत्येऽभिरताः सदैव तं पालयित्वा समयं यथावत्। अतोऽन्यथा तैरुपचर्यमाणा हन्युः समेतान्धृतराष्ट्रपुत्रान्
तैर्विप्रकारं च निशम्य कार्ये सुहृज्जनास्तान्परिवारयेयुः। युद्धेन बाधेयुरिमांस्तथैवं तैर्बाध्यमाना युधि तांश्च हन्युः
तथाऽपि नेमेऽल्पतयाऽसमर्था- स्तेषां जयायेति भवेन्मतिर्वः । समेत्य सर्वे सहिताः सुहृद्भि- स्तेषां विनाशाय यतेयुरेव
दुर्योधनस्यापि मतं यथाव- न्न ज्ञायते किं नु करिष्यतीति अज्ञायमाने च मते परस्य मन्त्रस्य पारं कथमभ्युपेमः
तस्मादितो गच्छतु धर्मशीलः शुचिः कुलीनः पुरुषोऽप्रमत्तः। दूतः समर्थः प्रशमाय तेषां राज्यार्धदानाय युधिष्ठिरस्य
निशम्य वाक्यं तु जनार्दनस्य धर्मार्थयुक्तं मधुरं समं च। समाददे वाक्यमथाग्रजोऽस्य संपूज्य वाक्यं तदतीव राजन्
श्रुतं भवद्भिर्गदपूर्वजस्य वाक्यं यथा धर्मवदर्थवच्च। अजातशत्रोश्च हितं च युक्तं दुर्योधनस्यापि तथैव राज्ञः
अर्धं हि राज्यस्य विसृज्य वीराः कुन्तीसुतास्तस्य कृते यतन्ते। प्रदाय चार्धं धृतराष्ट्रपुत्रः सुखी सहास्माभिरतीव मोदेत्
लब्ध्वा हि राज्यं पूरुषप्रवीराः सम्यक्प्रवृत्तेषु परेषु चैव । ध्रुवं प्रशान्ताः सुखमाविशेयु- स्तेषां प्रशान्तिश्च हितं प्रजानाम्
दुर्योधनस्यापि मतं च वेत्तुं वक्तुं च वाक्यानि युधिष्ठिरस्य। प्रियं च मे स्याद्यदि तत्र कश्चि- द्व्रजेच्छमार्थं कुरुपाण्डवानाम्
स भीष्ममामन्त्र्य कुरुप्रवीरं वैचित्रवीर्यं च महानुभावम् । द्रोणं सपुत्रं विदुरं कृपं च गान्धारराजं च समूतपुत्रम्
सवे च येऽन्ये धृतराष्ट्रपुत्रा बलप्रधाना निगमप्रधानाः । स्थिताश्च धर्मेषु यथा स्वकेषु लोकप्रवीराः श्रुतशीलवृद्धाः
एतेषु सर्वेषु समागतेषु पौरेषु वृद्धेषु च संगतेषु। ब्रवीतु वाक्यं प्रणिपातयुक्तं कुन्तीसुतस्यार्थकरं यथा स्यात्
सर्वास्ववस्थासु च ते न कोप्या ग्रस्तो हि सोऽर्थो बलमाश्रितैस्तैः। प्रियाभ्युपेतस्य युधिष्ठिरस्य द्यूते प्रसक्तस्य हृतं च राज्यम्
निवार्यमाणश्च कुरुप्रवीरः सर्वैः सुहृद्भिर्ह्यमप्यतञ्झः। स दीव्यमानः प्रतिदीव्य चैनं गान्धारराजस्य सुतं मताक्षम्
हित्वा हि कर्णं च सुयोधनं च समाह्वयद्देवितुमाजमीढः। दुरोदरास्तत्र सहस्रशोऽन्ये युधिष्ठिरो यान्विषहेत जेतुम्
उत्सृज्य तान्सौबलमेव चायं समाह्वयत्तेन जितोऽक्षवत्याम्। स दीव्यमानः प्रतिदेवनेन अक्षेषु नित्यं स्वपराङ्भुखेषु
संरम्भमाणो विजितः प्रसह्य तत्रापराधः शकुनेर्न कश्चित्। तस्मात्प्रणम्यैव वचो ब्रवीतु वैचित्रवीर्यं बहुसामयुक्तम्
तथा हि शक्यो धृतराष्ट्रपुत्रः स्वार्थें नियोक्तुं पुरुषेण तेन। अयुद्धमाकाङ्क्षत कौरवाणां साम्नैव दुर्योधनमाश्वसध्वम्
साम्ना जितोऽर्थोऽर्थकरो भवेत युद्धेऽनयो भविता नेह सोऽर्थः
एवं ध्रुवत्येव मधुप्रवीरे शिनिप्रवीरः सहसोत्पपात तच्चापि वाक्यं परिनिन्द्य तस्य समाददे वाक्यमिदं समुन्युः
यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते। यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषते
सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा। उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति
एकस्मिन्नेव जायेते कुले क्लीबमहाबलौ । फलाफलवती शाखे यथैकस्मिन्वनस्पतौ
नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज। ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव
कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन्। लभते परिषन्मध्ये व्याहर्तुमकुतोभयः
समाहूय महात्मानं जितवन्तोऽक्षकोविदाः। अनक्षज्ञं यथाऽश्रद्धं तेषु धर्मजयः कुतः