देवयान्याः प्रियं कृत्वा शर्मिष्ठामपि पोषय
न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले। प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि
पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा वदन्ति मिथ्या पतितं नरेन्द्र। एकार्थतायां तु समाहितायां मिथ्या वदन्तं ह्यनृतं हिनस्ति
अनृतं नानृतं स्त्रीषु परिहासविवाहयोः। आत्मप्राणार्थघाते च तदेवोत्तमतां व्रजेत्
राजा प्रमाणं भूतानां स नश्येत मृषा वदन्। अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे
समावेतौ मतो राजन्पतिः सख्याश्च यः पतिः। समं विवाहमित्याहुः सख्या मेऽसि वृतः पतिः
सह दत्तास्मि काव्येन देवयान्या मनीषिणा। पूज्या पोषयितव्येति न मृषा कर्तुमर्हसि
सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च। याचितॄणां ददासि त्वं गोभूम्यादीनि यानि च
बहिःस्थं दानमित्युक्तं न शरीराश्रितं नृप। दुष्करं पुत्रदानं च आत्मदानं च दुष्करम्
शरीरदानात्तत्सर्वं दत्तं भवति मारिष। यस्य यस्य यथा कामस्तस्य तस्य ददाम्यहम्
इत्युक्त्वा नगरे राजंस्त्रिकालं घोषितं त्वया। त्वयोक्तमनृतं राजन्वृथा घोषितमेव वा। तत्सत्यं कुरु राजेन्द्र यथा वैश्रवणस्तथा
दातव्यं याचमानेभ्य इति मे व्रतमाहितम्। त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते
धनं वा यदि वा किंचिद्राज्यं वाऽपि शुचिस्मिते
नान्यं वृणे पुत्रकामा पुत्रात्परतरं न च।' त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम्
त्रय एवाधना राजन्भार्या दासस्तथा सुतः। यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम्
पुत्रार्थं भर्तृपोषार्थं स्त्रियः सृष्टाः स्वयंभुवा। अपतिर्वापि या कन्या अनपत्या च या भवेत्। तासां जन्म वृथा लोके गतिस्तासां न विद्यते
देवयान्या भुजिष्याऽस्मि वश्या च तव भार्गवी। सा चाहं च त्वया राजन्भजनीये भजस्व माम्
एवमुक्तस्तु राजा स तथ्यमित्यभिजज्ञिवान्। पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत्
स समागम्य शर्मिष्ठां यथा काममवाप्य च। अन्योन्यं चाभिसंपूज्य जग्मतुस्तौ यथागतम्
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी। लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात्
प्रयज्ञे च ततः काले राजन्राजीवलोचना। कुमारं देवगर्भाभं राजीवनिभलोचनम्
तस्मिन्नक्षत्रसंयोगे शुक्ले पुण्यर्क्षगेन्दुना। स राजा मुमुदे सम्राट् तया शर्मिष्ठया सह
प्रजानां श्रीरिवाभ्याशे शर्मिष्ठा ह्यभवद्वधूः। पन्नगीवोग्ररूपा वै देवयानी ममाप्यभूत्
पर्जन्य इव सस्यानां देवानाममृतं यथा। तद्वन्ममापि संभूता शर्मिष्ठा वार्षपर्वणी। इत्येवं मनसा ज्ञात्वा देवयानीमवर्जयत्
श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता। चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत
अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम्
ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः। स मया वरदः कामं याचितो धर्मसंहितम्
अपत्यार्थे स तु मया वृतो वै चारुहासिनि'। नाहमन्यायतः काममाचरामि शुचिस्मिते। तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते
शोभनं भीरु यद्येवमथ स ज्ञायते द्विजः। गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम्
तपसा तेजसा चैव दीप्यमानं यथा रविम्। तं दृष्ट्वा मम संप्रष्टुं शक्तिर्नासीच्छुचिस्मिते