सप्तैतेऽक्षौहिणीपाला यज्वानो भूरिदक्षिणाः । पाण्डवं परिवार्यैते निवेशं चक्रिरे तदा
तत्रस्थायां तु सेनायां मात्स्यो धर्मभृतांवरः । प्रीतो दुहितरं गृह्य प्रददावभिमन्यवे
प्रतिगृह्योत्तरां पार्थः पुरस्कृत्य जनार्दनम् । विवाहं कारयामास सौभद्रस्य महात्मनः
ततो विवाहो ववृधे स्फीतः सर्वगुणान्वितः । सौभद्रस्याद्भुतं कर्म पितुस्तव पितुस्तदा
धौम्यः शिष्यैः परिवृतो जुहावाग्नौ विधानतः । अग्निं प्रदक्षिणीकुर्वन्सौभद्रः पाणिमग्रहीत्
ततः पार्थाय संहृष्टो मात्स्यराजो धनं महत्। तस्मै शतसहस्राणि हयानां वातरंहसाम्
द्वे च नागशते मुख्ये धनं बहुविधं तदा। प्रादान्मात्स्यपतिर्हृष्टः कन्याधनमनुत्तमम्
पारिबर्हं च पार्थेभ्यः प्रददौ मत्स्यपुङ्गवः । कृष्णेन सह कौन्तेयः प्रत्यगृह्णात्प्रभूतवत्
कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः। ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः
गोसहस्राणि वस्त्राणि रत्नानि विविधानि च। भूषणानि च सर्वाणि यानानि शयनानि च
नागरान्प्रीतिभिर्दिव्यैस्तर्पयामास भूपतिः
तन्महोत्सवसंकाशं हृष्टपुष्टजनाकुलम्। नगरं मत्स्यराजस्य शुशुभे भरतर्षभ
पुरोहितैरमात्यैश्च पौरैर्जानपदैः सह। विराटो नृपतिः श्रीमान्सौभद्रायाभिमन्यवे । तां सुतामुत्तरां दत्त्वा मुमुदे परमं तदा
वृत्ते विवाहे हृष्टात्मा यदुवाच युधिष्ठिरः। तत्सर्वं कथयस्वेह कृतवन्तो यदुत्तरम्
कृत्वा विवाहं तु कुरुप्रवीरा- स्तदाऽभिमन्योर्मुदिताः सपक्षाः। विश्रम्य रात्रावुषसि प्रतीताः सभां विराटस्य ततोऽभिजग्मुः
सभा तु सा मत्स्यपतेः समृद्धा मणिप्रवेकोत्तमरत्नचित्रा। न्यस्तासना माल्यवती सुगन्धा तामभ्ययुस्ते नरराजवर्याः
अथासनान्याविशतां पुरस्ता- दुभौ विराटद्रुपदौ नरेन्द्रौ। वृद्धौ च मान्यौ पृथिवीपतीनां पित्रा समं तमजनार्दनौ च
पाञ्चालराजस्य समीपतस्तु शिनिप्रवीरः सहरौहिणेयः मत्स्यस्य राज्ञस्तु सुसन्निकृष्टौ जनार्दनश्चैव युधिष्ठिरश्च
सुताश्च सर्वे द्रुपदस्य राज्ञो भीमार्जुनौ माद्रवतीसुतौ च। प्रद्युम्नसाम्बौ च युधि प्रवीरौ विराटपुत्रैश्च सहाभिमन्युः
सर्वे च शूराः पितृभिः समाना वीर्येण रूपेण बलेन चैव। उपाविशन्द्रौपदेयाः कुमाराः सुवर्णचित्रेषु वरासनेषु
तथोपविष्टेषु महारथेषु विराजमानाभरणाम्बरेषु रराज सा राजवती समृद्धा ग्रहैरिव द्यौर्विमलैरुपेता
ततः कथास्ते समवाययुक्ताः कृत्वा विचित्राः पुरुषप्रवीराः । तस्थुर्मुहूर्तं परिचिन्तयन्तः कृष्णं नृपास्ते समुदीक्षमाणाः
कथान्तमासाद्य च माधवेन संघट्टिताः पाण्डवकार्यहेतोः। ते राजसिंहाः सहिता ह्यश्रृण्व- न्वाक्यं महार्थं सुमहोदयं च
सर्वैर्भवद्भिर्विदितं यथाऽयं युधिष्ठिरः सौबलेनाक्षवत्याम्। जितो निकृत्याऽपहृतं च राज्यं वनप्रवासे समयः कृतश्च
शक्तैर्विजेतुं तरसा महीं च सत्ये स्थितैः सत्यरथैर्यथावत्। पाण्डोः सुतैस्त्रद्रुतमुग्ररूपं वर्षाणि षट् सप्त च चीर्णमग्र्यैः
रिच्छद्भिराप्तं स्वकुलेन राज्यम्
एवं गते धर्मसुतस्य राज्ञो दुर्योधनस्यापि च यद्धितं स्यात्। तच्चिन्तयध्वं कुरुपाण्डवानां धर्म्यं च युक्तं च यशस्करं च
अधर्मयुक्तं न च कामयेत राज्यं सुराणामपि धर्मराजः। धर्मार्थयुक्तं तु महीपतित्वं ग्रोमेऽपि कस्मिंश्चिदयं बुभूषेत्
पित्र्यं हि राज्यं विदितं नृपाणां यथाऽपकृष्टं धृतराष्ट्रपुत्रैः। मिथ्योपचारेण यथा ह्यनेन कृच्छ्रं महत्प्राप्तमसह्यरूपम्
न चापि पार्थो विजितो रणे तैः स्वतेजसा धृतराष्ट्रस्य पुत्रैः। तथाऽपि राजा सहितः सुहृद्भि- रभीप्सतेऽनामयमेव तेषाम्