काशिराजश्च शैब्यश्च भजमानौ युधिष्ठिरम्। अक्षौहिणीभ्यां सहितावागतौ पृथिवीपती
अक्षौहिणीभिः पाञ्चालस्तिसृभिश्च महाबलः। द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः
धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतांवरः। उपप्लाव्यं ययुः शीघ्रं पाण्डवार्थे महाबलाः
ततः शतसहस्राणि प्रयुतान्यर्बुदानि च। समीपमभिवर्तन्ते योधा यौधिष्ठिरं बलम्
समुद्रमिव धर्मान्ते स्रोतःश्रेष्ठाः पृथक्पृथक्। आपूरयन्महीपाला यज्वानो भूरिदक्षिणैः । वेदावभृथसंपन्नाः शूराः सर्वे तनुत्यजः
तानागतानभिप्रेक्ष्य पार्थो ज्ञानभृतां वरः। पूजयामास विधिवद्यथार्हं राजसत्तमान्
पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम्। स्त्रियो वासांसि रत्नानि पृथक्पृथगनेकशः
राजानो राजपुत्राश्च निवृत्ते समये तथा। यथांर्ह पाण्डवश्रेष्ठैरवर्तन्ताभिपूजिताः। आसन्प्रहृष्टमनसः पारिबर्हं ददुस्तदा
सर्वेषु समवेतेषु राजभिर्वृष्णिभिः सह। विवाहो विधवद्राजन्ववृधे कुरुमात्स्ययोः
ततः शङ्खा मृदङ्गाश्च गोमुखा डिण्डिमास्तदा। अभिमन्योर्विवाहे तु नेदुर्मात्स्यस्य वेश्मनि
उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशस्तथा। भक्ष्यान्नभोज्यपानानि प्रभूतान्यभ्यहारयन्
गायनाख्यानशीलाश्च नटा वैतालिकास्तथा। स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः
स्त्रियो वृद्धास्तरुण्यश्च उत्सवे तस्य मङ्गले। द्रौपद्यन्तःपुरे चैव विराटस्य गृहे स्त्रियः
सुदेष्णां तु पुरस्कृत्य मत्स्यानामपि च स्त्रियः। आजग्मुश्चारुपीनाङ्ग्यः सुमृष्टमणिकुण्डलाः
वर्णोपपन्नास्ता नार्यो रूपवन्तयः स्वलंकृताः। सर्वासामभवत्कृष्णा रूपेण वपुषाऽधिका
परिवार्योत्तरां श्लाघ्यां राजपुत्रीमलंकृताम्। सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे
भृङ्गारुं तु समादाय सौवर्णं जलपूरितम्। पार्थस्य हस्ते सहसा सुतामिन्दीवरेक्षणाम्। स्नुषार्थं प्राक्षिपद्वारि विराटो वाहिनीपतिः
तां प्रत्यगृह्णाकौन्तेयः सुतस्यार्थे महामनाः । सौभद्राश्चानवद्याङ्गो विराटतनयां तदा
तत्रातिष्ठद्गृहीत्वा तु रूपमिन्द्रास्य धारयन्। स्नुषां तां परिगृह्णानः कुन्तीपुत्रो युधिष्ठिरः
द्रुपदश्च विराटश्च शिखण्डी च महाबलः । युयुधानश्च शैब्यश्च धृष्टद्युम्नश्च सात्यकिः
सप्तैतेऽक्षौहिणीपाला यज्वानो भूरिदक्षिणाः । पाण्डवं परिवार्यैते निवेशं चक्रिरे तदा
तत्रस्थायां तु सेनायां मात्स्यो धर्मभृतांवरः । प्रीतो दुहितरं गृह्य प्रददावभिमन्यवे
प्रतिगृह्योत्तरां पार्थः पुरस्कृत्य जनार्दनम् । विवाहं कारयामास सौभद्रस्य महात्मनः
ततो विवाहो ववृधे स्फीतः सर्वगुणान्वितः । सौभद्रस्याद्भुतं कर्म पितुस्तव पितुस्तदा
धौम्यः शिष्यैः परिवृतो जुहावाग्नौ विधानतः । अग्निं प्रदक्षिणीकुर्वन्सौभद्रः पाणिमग्रहीत्
ततः पार्थाय संहृष्टो मात्स्यराजो धनं महत्। तस्मै शतसहस्राणि हयानां वातरंहसाम्
द्वे च नागशते मुख्ये धनं बहुविधं तदा। प्रादान्मात्स्यपतिर्हृष्टः कन्याधनमनुत्तमम्
पारिबर्हं च पार्थेभ्यः प्रददौ मत्स्यपुङ्गवः । कृष्णेन सह कौन्तेयः प्रत्यगृह्णात्प्रभूतवत्
कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः। ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः
गोसहस्राणि वस्त्राणि रत्नानि विविधानि च। भूषणानि च सर्वाणि यानानि शयनानि च