ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः। उपप्लाव्ये विराटस्य वासं चक्रुः पुरोत्तमे
दूतान्मित्रेषु सर्वेषु ज्ञातिसंबन्धिकेष्वपि। प्रेषयामास कौन्तेयो विराटश्च महीपतिः
तेषु तत्रोपविष्टेषु प्रेषितेषु ततस्ततः । तत्रागमन्महाबाहुर्वनमाली बलानुजः
तस्मिन्काले निशम्याथ दूतवाक्यं जनार्दनः। दयितं स्वस्त्रियं पुत्रं सुभद्रायाः सुमानितम्। अभिमन्युं समादाय रामेण सहितस्तदा
सर्वयादवमुख्यैश्च संवृतः परवीरहा। शङ्खदुन्दुभिनिर्घोषैर्विराटनगरं ययौ
कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः। अनाधृष्टिस्तथाऽक्रूरः सांबो निशठ एव च। प्रद्युम्नश्च महाबाहुरुल्मुकश्च महाबलः
अभिमन्युमुपादाय सह मात्रा परन्तपाः। कृष्णेन सहिताः सर्वे पाण्डवान्द्रष्टुमागताः
इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः । उपेयुः सहिताः सर्वे परिसंवत्सरोषिताः
दशनागसहस्राणि हयानां द्विगुणं तथा। रथानां नियुतं पूर्णं निखर्वं च पदातयः
वृष्ण्यन्धकाश्च शतशो भोजाश्च परमौजसः। अन्युर्वृष्णिशार्दूलं वासुदेवं महाबलम्
वासुदेवं तथाऽऽयान्तं श्रुत्वा पाण्डुसुतास्तदा। मात्स्येन सहिताः सर्वे प्रत्युद्याता जनार्दनम्
शङ्खदुन्दुभिनिर्घोषैर्मङ्गलैश्च जनार्दनम् । ववन्दुर्मुदिताः सर्वे पादयोस्तस्य पाण्डवाः। मात्स्येन सहिताः सर्वे आनन्दाश्रुपरिप्लुताः
तव कृष्ण प्रसादाद्वै वर्षाण्येतानि सर्वशः। त्रयोदशोपि दाशार्ह यथा स समयः कृतः
उषिताः स्मो जगन्नाथ त्वं नाथो नो जनार्दन। रक्षस्व देवदेवेश त्वामार्य शरणं गताः
तान्वन्दूमानान्सहसा परिष्वज्य जनार्दनः। विराटस्य सहायांस्तान्सर्वयादवसंवृतः
यथार्हं पूजयामास मुदा परमया युतः। वृष्णिवीराश्च तान्सर्वान्यथार्हं प्रतिपेदिरे
कृष्णा च देवकीपुत्रं ववन्दे पादयोस्तथा। तामुद्यम्य सुकेशान्तां नयने परिमृज्य च । उवाच वाक्यं देवेशः सर्वयादवसन्निधौ
मा शोकं कुरु कल्याणि धार्तराष्ट्रान्समाहितान्। अचिराद्धातयित्वाऽहं पार्थेन सहितः क्षितिम्
युधिष्ठिराय दास्यामि यातु ते मानसो ज्वरः। अभिमन्युना च पार्थेनरौक्मिणेयेन ते शपे
सत्यमेतद्वचो मह्यमवैहि त्वमनिन्दिते। इत्युक्त्वा तां विसृज्याथ प्रीयमाणो युधिष्ठिरम्। अन्वास्त वृष्णिशार्दूलः सह वृष्ण्यन्धकैस्तथा
काशिराजश्च शैब्यश्च भजमानौ युधिष्ठिरम्। अक्षौहिणीभ्यां सहितावागतौ पृथिवीपती
अक्षौहिणीभिः पाञ्चालस्तिसृभिश्च महाबलः। द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः
धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतांवरः। उपप्लाव्यं ययुः शीघ्रं पाण्डवार्थे महाबलाः
ततः शतसहस्राणि प्रयुतान्यर्बुदानि च। समीपमभिवर्तन्ते योधा यौधिष्ठिरं बलम्
समुद्रमिव धर्मान्ते स्रोतःश्रेष्ठाः पृथक्पृथक्। आपूरयन्महीपाला यज्वानो भूरिदक्षिणैः । वेदावभृथसंपन्नाः शूराः सर्वे तनुत्यजः
तानागतानभिप्रेक्ष्य पार्थो ज्ञानभृतां वरः। पूजयामास विधिवद्यथार्हं राजसत्तमान्
पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम्। स्त्रियो वासांसि रत्नानि पृथक्पृथगनेकशः
राजानो राजपुत्राश्च निवृत्ते समये तथा। यथांर्ह पाण्डवश्रेष्ठैरवर्तन्ताभिपूजिताः। आसन्प्रहृष्टमनसः पारिबर्हं ददुस्तदा
सर्वेषु समवेतेषु राजभिर्वृष्णिभिः सह। विवाहो विधवद्राजन्ववृधे कुरुमात्स्ययोः
ततः शङ्खा मृदङ्गाश्च गोमुखा डिण्डिमास्तदा। अभिमन्योर्विवाहे तु नेदुर्मात्स्यस्य वेश्मनि