एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः। अन्वजानत संबन्धं समये कृष्णमात्स्ययोः
दूतान्सर्वेषु मित्रेषु वासुदेवे च भारत। प्रेषयामास कौन्तेयो विराटश्च महीपतिः
प्रतिगृह्य स्नुषार्थं वै दर्शयन्व्रतमात्मनः । शीलशौचसमाचारं लोकस्यावेद्य फल्गुनः
लोके विख्याप्य माहात्म्यं यशश्च स परंतपः । कृतार्थः शुचिरव्यग्रस्तुष्टिमानभवत्तदा
राजन्प्रीतोस्मि भद्रं ते सखा मेऽसि परन्तप। सुखमध्युषिताः सर्वे अज्ञातास्त्वयि पार्थिव
विराटनगरे राजा धर्मात्मा संशितव्रतः । पूजितश्चाभिषिक्तश्च रत्नैश्च शतशोर्चितः
तथा ब्रुवन्तं प्रसमीक्ष्य राजा परं प्रहृष्टः स्वजनेन तेन। स्नेहात्परिष्वज्य नृपो भुजाभ्यां ददौ महार्थं कुरुपाण्डवानाम्
समादिशन्दूतमथो समग्राः
युधिष्ठिरश्चापि सुसंग्रहृष्टो दुर्योधनाद्दूतमपश्यदागतम्। स चाब्रवीद्धर्मराजं समेत्य युधिष्ठिरं पाण्डवमुग्रवीर्यम्
धनञ्जयेनासि पुनर्वनाय प्रव्राजितः समये तिष्ठ पार्थः। त्रयोदशे ह्येव किरीटमाली संवत्सरे पाण्डवेयोऽद्य दृष्टः
ततोऽब्रवीद्धर्मसुतः प्रहस्य क्षिप्रं गत्वा ब्रूहि सुयोधनं तम्। पितामहः शान्तनवो ब्रवीतु पूर्णो न पूर्णोऽद्य त्रयोदशो नः
संवत्सरात्ते तु धनञ्जयेन विष्फारितं गाण्डिवमाजिमध्ये। पूर्णो न पूर्णो न इति ब्रवीतु यदस्य सत्यं मम तत्प्रमाणम्
तेनैवमुक्तः स निवृत्य दूतो दुर्योधनं प्राप्य शशंस तत्त्वम्
समेत्य दूतेन स राजपुत्रो दुर्योधनो मन्त्रयामास तत्र। भीष्मेण कर्णेन कृपेण चैव द्रोणेन भूरिश्रवसा च सार्धम्
संमन्त्र्य रात्रौ बहुभिः सुहृद्भि- र्भीष्मोऽब्रवीद्धार्तराष्ट्रं महात्मा । तीर्णप्रतिज्ञेन धनंजयेन विष्फारितं गाण्डिवमाजिमध्ये
नेच्छन्त्यसत्येन सुरेन्द्रलोकं पाण्डोः सुता ब्रह्मणश्चापि लोकम्। तथ्यं च ते पथ्यमहं ब्रवीमि स्वर्ग्यं यशस्यं परलोकपथ्यम्
कुन्तीसुतैस्त्वं समुपैहि सन्धिं भुङ्क्ष्व स्वराज्यं सह पाण्डवेयैः। युध्यस्व नोचेत्स्थिरबुद्धिराजौ कुन्तीसुतैर्यद्यपि राज्यमिच्छेः
आन्तं न शक्यं कपटेन भोक्तुं राज्यं परेषां महतां बलीनाम्। जित्वा शत्रून्भुङ्क्ष्व राज्यं समग्रं हतो भवान्भोक्ष्यति वज्रिलोकम्
हतोस्मि तैर्वा सुरलोकमेमि
ते धार्तराष्ट्राः समयं निशम्य तीर्णप्रतिज्ञस्य धनंजयस्य संचिन्त्य सर्वे सहिताः सुहृद्भिः सपार्थिवाः स्वानि गृहाणि जग्मुः
ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः। उपप्लाव्ये विराटस्य वासं चक्रुः पुरोत्तमे
दूतान्मित्रेषु सर्वेषु ज्ञातिसंबन्धिकेष्वपि। प्रेषयामास कौन्तेयो विराटश्च महीपतिः
तेषु तत्रोपविष्टेषु प्रेषितेषु ततस्ततः । तत्रागमन्महाबाहुर्वनमाली बलानुजः
तस्मिन्काले निशम्याथ दूतवाक्यं जनार्दनः। दयितं स्वस्त्रियं पुत्रं सुभद्रायाः सुमानितम्। अभिमन्युं समादाय रामेण सहितस्तदा
सर्वयादवमुख्यैश्च संवृतः परवीरहा। शङ्खदुन्दुभिनिर्घोषैर्विराटनगरं ययौ
कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः। अनाधृष्टिस्तथाऽक्रूरः सांबो निशठ एव च। प्रद्युम्नश्च महाबाहुरुल्मुकश्च महाबलः
अभिमन्युमुपादाय सह मात्रा परन्तपाः। कृष्णेन सहिताः सर्वे पाण्डवान्द्रष्टुमागताः
इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः । उपेयुः सहिताः सर्वे परिसंवत्सरोषिताः
दशनागसहस्राणि हयानां द्विगुणं तथा। रथानां नियुतं पूर्णं निखर्वं च पदातयः
वृष्ण्यन्धकाश्च शतशो भोजाश्च परमौजसः। अन्युर्वृष्णिशार्दूलं वासुदेवं महाबलम्