समीक्ष्य तुष्टोस्मि नरेन्द्रसत्तम
क्षान्तमेतन्महाबाहो यन्मां वदसि पार्थिव। न चैव किंचित्पश्यामि विकृतं ते नराधिप
ततो विराटः परमामितुष्टः समेत्य राज्ञा समयं चकार। राज्यं च सर्वं विससर्ज तस्मै सदण्डकोशं सपुरं महात्मा
यच्च वक्ष्याम्यहं तेऽद्य मा शङ्केथा युधिष्ठिर। इदं सनगरं राष्ट्रं सजनं सवधूजनम्। युष्यभ्यं संप्रदास्यामि भोक्ष्याम्युच्छिष्टमेव च
अहं वद्धश्चिरं राजन्भुक्तभोगश्चिरं सुखम्। राज्यं दत्त्वा तु युष्मभ्यं प्रव्रजिष्यामि काननम्
उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः । अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः
एवमुक्तो धर्मराजः पार्थपैक्षद्वनंजयम्। ईक्षितं चार्जुनो ज्ञात्वा मात्स्यं वचनमब्रवीत्
वयं वनान्तरात्प्राप्ता न ते राज्यं गृहामहे। किंतु दुर्योधनादीनां राज्ञां राज्यं गृहामहे
प्रतिगृह्णाम्यहं राजन्स्रुषं दुहितरं तव। युक्तो ह्यावां हि संबन्धो मात्स्यभारतवंशयोः
किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम। प्रतिग्रहीतुं नेमां त्वं मया दत्तमिहेच्छसि
अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव। सहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि
प्रियो बहुमतश्चाहं नर्तने गीतवादिते। आचार्यवच्च मां नित्यं मन्यते दुहिता तव
वयस्यया तया राजन्सह संवत्सरोषितः । अतिशङ्का ततोऽस्थाने तव लोकस्य च प्रभो
तस्मादामन्त्रये त्वाऽद्य पुत्रार्थं मे विशांपते। सुद्धं जितेन्द्रियं मन्ये तस्याः शुद्धिः कृता मया
स्नुषायां दुहितुर्वापि पुत्रे चात्मनि वा पुनः । अतिशङ्कां न पश्यामि तेन शुद्धिर्भविष्यति
अभिषङ्गादहं भीतो मिथ्याचारात्परंतप । स्रुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम्
स्वस्त्रीयो वासुदेवस्य साक्षाद्देवसुतो यथा। दयितश्चक्रहस्तस्य बलवानस्त्रकोविदः
अभिमन्युर्गहाबाहुः पुत्रो मम विशांपते । जामाता तव युक्तो वै भर्ता च दुहितुस्तव
उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये। सदैव धर्मनित्यश्च ज्ञातज्ञानश्च पाण्डवः
यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम्। सर्वे कामाः समृद्धा मे संबन्धी यस्य मेऽर्जुनः
एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः। अन्वजानत संबन्धं समये कृष्णमात्स्ययोः
दूतान्सर्वेषु मित्रेषु वासुदेवे च भारत। प्रेषयामास कौन्तेयो विराटश्च महीपतिः
प्रतिगृह्य स्नुषार्थं वै दर्शयन्व्रतमात्मनः । शीलशौचसमाचारं लोकस्यावेद्य फल्गुनः
लोके विख्याप्य माहात्म्यं यशश्च स परंतपः । कृतार्थः शुचिरव्यग्रस्तुष्टिमानभवत्तदा
राजन्प्रीतोस्मि भद्रं ते सखा मेऽसि परन्तप। सुखमध्युषिताः सर्वे अज्ञातास्त्वयि पार्थिव
विराटनगरे राजा धर्मात्मा संशितव्रतः । पूजितश्चाभिषिक्तश्च रत्नैश्च शतशोर्चितः
तथा ब्रुवन्तं प्रसमीक्ष्य राजा परं प्रहृष्टः स्वजनेन तेन। स्नेहात्परिष्वज्य नृपो भुजाभ्यां ददौ महार्थं कुरुपाण्डवानाम्
समादिशन्दूतमथो समग्राः
युधिष्ठिरश्चापि सुसंग्रहृष्टो दुर्योधनाद्दूतमपश्यदागतम्। स चाब्रवीद्धर्मराजं समेत्य युधिष्ठिरं पाण्डवमुग्रवीर्यम्
धनञ्जयेनासि पुनर्वनाय प्रव्राजितः समये तिष्ठ पार्थः। त्रयोदशे ह्येव किरीटमाली संवत्सरे पाण्डवेयोऽद्य दृष्टः