पूज्यतां पूजनीयाश्च महाभागाश्च पाण्डवाः। न ह्येते कुपिता शेषं कुर्युराशीविषोपमाः
तस्माच्छीघ्रं प्रपद्येम कुन्तीपुत्रं युधिष्ठिरम् । प्रसादयाम्यहं तत्र सह पार्थेर्महात्मभिः
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः । जानाम्यहमिदं सर्वमेषां तु बलपौरुषम् । कुले च जन्म महति फल्गुनस्य च विक्रमम्
उत्तरात्पाण्डवाञ्श्रुत्वा विराटो रिपुसूदनः। उत्तरं चापि संप्रेक्ष्य प्राप्तकालमचिन्तयत्
ततो विराटः सामात्यः सहपुत्रः सबान्धवः। उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः। भूमौ निपतितस्तूर्णं पाण्डवस्य समीपतः
प्रसीदतु महाराजो धर्मपुत्रो युधिष्ठिरः। प्रच्छन्नरूपवेषत्वान्नाग्निर्दृष्टस्तृणैर्वृतः
शिरसाऽभिप्रपन्नोस्मि सपुत्रपरिचारकः
यदस्माभिरजानद्भिरधिक्षिप्तो महीपतिः । अवमत्य कृतं सर्वमज्ञानात्प्राकृते यथा। क्षन्तुमर्हसि तत्सर्वं धर्मज्ञो धर्मवत्सल
यदिदं मामकं राष्ट्रं पुरं राज्यं च पार्थिव । सदण्डकोशं विसृजे तव वश्योस्मि पार्थिव । वयं च सर्वे सामात्या भवन्तं शरणं गताः
तं धर्मराजः पतितं महीतले सबन्धुवर्गं प्रसमीक्ष्य पार्थिवम् । उवाच वाक्यं परलोकदर्शनः प्रनष्टमन्युर्गतशोकमत्सरः
समीक्ष्य तुष्टोस्मि नरेन्द्रसत्तम
क्षान्तमेतन्महाबाहो यन्मां वदसि पार्थिव। न चैव किंचित्पश्यामि विकृतं ते नराधिप
ततो विराटः परमामितुष्टः समेत्य राज्ञा समयं चकार। राज्यं च सर्वं विससर्ज तस्मै सदण्डकोशं सपुरं महात्मा
यच्च वक्ष्याम्यहं तेऽद्य मा शङ्केथा युधिष्ठिर। इदं सनगरं राष्ट्रं सजनं सवधूजनम्। युष्यभ्यं संप्रदास्यामि भोक्ष्याम्युच्छिष्टमेव च
अहं वद्धश्चिरं राजन्भुक्तभोगश्चिरं सुखम्। राज्यं दत्त्वा तु युष्मभ्यं प्रव्रजिष्यामि काननम्
उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः । अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः
एवमुक्तो धर्मराजः पार्थपैक्षद्वनंजयम्। ईक्षितं चार्जुनो ज्ञात्वा मात्स्यं वचनमब्रवीत्
वयं वनान्तरात्प्राप्ता न ते राज्यं गृहामहे। किंतु दुर्योधनादीनां राज्ञां राज्यं गृहामहे
प्रतिगृह्णाम्यहं राजन्स्रुषं दुहितरं तव। युक्तो ह्यावां हि संबन्धो मात्स्यभारतवंशयोः
किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम। प्रतिग्रहीतुं नेमां त्वं मया दत्तमिहेच्छसि
अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव। सहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि
प्रियो बहुमतश्चाहं नर्तने गीतवादिते। आचार्यवच्च मां नित्यं मन्यते दुहिता तव
वयस्यया तया राजन्सह संवत्सरोषितः । अतिशङ्का ततोऽस्थाने तव लोकस्य च प्रभो
तस्मादामन्त्रये त्वाऽद्य पुत्रार्थं मे विशांपते। सुद्धं जितेन्द्रियं मन्ये तस्याः शुद्धिः कृता मया
स्नुषायां दुहितुर्वापि पुत्रे चात्मनि वा पुनः । अतिशङ्कां न पश्यामि तेन शुद्धिर्भविष्यति
अभिषङ्गादहं भीतो मिथ्याचारात्परंतप । स्रुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम्
स्वस्त्रीयो वासुदेवस्य साक्षाद्देवसुतो यथा। दयितश्चक्रहस्तस्य बलवानस्त्रकोविदः
अभिमन्युर्गहाबाहुः पुत्रो मम विशांपते । जामाता तव युक्तो वै भर्ता च दुहितुस्तव
उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये। सदैव धर्मनित्यश्च ज्ञातज्ञानश्च पाण्डवः
यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम्। सर्वे कामाः समृद्धा मे संबन्धी यस्य मेऽर्जुनः