वर्षं च शरवर्षेण वारितं दुर्जयेन वै। करमाहारिताः सर्वे पार्थिवाः पृथिवीतले
स्त्रीवेषं कृतवानेष तव राजन्निवेशने। बृहन्नलेति यामाहुरर्जुनं जयतांवरम्
उषिताःस्म सुखं सर्वे तव राजन्निवेशने। अज्ञातवासे निभृता गर्भवास इव प्रजाः
यदाऽर्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः। पुनरेव च तान्पार्थान्दर्शयामास चोत्तरः
य एष जाम्बूनदशुद्धगौर- तनुर्महान्सिंह इव प्रवद्धः । प्रचण्डघोणः पृथुदीर्घनेत्र- स्ताम्रायताक्षः कुरुराज एषः
अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः। पृथ्वायतांसो गुरुदीर्घबाहु- र्वृकोदरः पश्यत पश्यतैनम्
यस्त्वेव पार्श्वेऽस्य महाधनुष्मा- ञ्श्यामो युवा वारणयूथपोपमः । सिंहोन्नतांसो गजराजगामी पद्मायताक्षोऽर्जुन एष वीरः
राज्ञः समीपे पुरुषोत्तमौ तु यमाविमौ विष्णुमहेन्द्रकलौ। मनुष्यलोके सकले समोऽस्ति ययोर्न रूपे न बले न शीले
आभ्यां तु पार्श्वे कनकोत्तमाङ्गी यैषा प्रभा मूर्तिमतीव गौरी। नीलोत्पलाभा सुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः
एवं निवेद्य तान्पार्थान्पाण्डवान्पञ्च भूपतेः। ततोऽर्जुनस्य वैराटिः कथयामास विक्रमम्
अयं स द्विषतां मध्ये मृगाणामिव केसरी। अचरद्रथबृन्देषु निघ्नंस्तेषां परावरान्
अनेन विद्धा मातङ्गा महामेघोपमास्तदा। हिरण्यकक्ष्याः संग्रामे दन्ताभ्यामगमन्महीम्
अनेन विजिता गावो निर्जिताः कुरवो युधि। अस्य शङ्खस्य शब्देन कर्णौ मे बधिरीकृतौ
जायते रोमर्षो मे संस्मृत्यास्य धनुर्ध्वनिम्। ध्वजस्य वानरं भूतैराक्रोशन्तं सहानुगैः
नाददानं शरान्घोरान्न मुञ्चन्तं शरोत्करान्। न कार्मुकं विकर्षन्तमेनं पश्यामि संयुगे
एतद्धनुःप्रमुक्ताश्च शराः पुङ्खानुपुङ्खिनः । नालक्ष्येषु रणे पेतुर्नाराचा रक्तभोजनाः
तीक्ष्णनाराचसंकृत्तशिरोबाहूरुवक्षसाम्। कलेबराणि दृश्यन्ते योधानां साश्वसादिनां
अनेन तटिनी तत्र शोणिताम्बुप्रवाहिनी। प्रवर्तिता भीमरूपा यां स्मृत्वाऽद्यापि मे मनः। प्रकम्पते चण्डवायुकम्पिता कदली यथा
अनेन राजन्वीरेण भीष्मद्रोणमुखा रथाः। दुर्योधनेन सहिता निर्जिता भीमकर्मणा
अयं भीतं द्रवन्तं मां देवपुत्रो न्यवारयत्। यस्य बाहुबलेनास्मि जीवन्प्रत्यागतः पुरम्
तस्य तद्वचनं श्रुत्वा मात्स्यराजः प्रतापवान्। धनंजयं परिष्वज्य पाण्डवानथ सर्वशः
धर्मराजं नमस्कृत्य राजा राज्येऽभिषेचितम्। नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः
अविभक्तं भवद्भिर्मे न सन्देहो नराधिपाः
विराटस्य वचः श्रुत्वा पार्थिवस्य महात्मनः। उत्तरः प्रत्युवाचेदमभिपन्नो युधिष्ठिरे
प्रसादनं प्राप्तकालं पाण्डवस्याभिरोचये। तेजस्वी बलवाञ्शूरो राजराजेश्वरः प्रभुः
उत्तरां च स्वसारं मे पार्थस्यामित्रकर्शन। प्रणिपत्य प्रयच्छामस्ततः शिष्टा भवामहे
वयं च सर्वे सामात्याः कुन्तीपुत्रं युधिष्ठिरम् । प्रसाद्याभ्युपतिष्ठामो राजन्किं करवागहे
राजंस्त्वमसि संग्रामे गृहीतस्तेन मोक्षितः । एतेषां बाहुवीर्येण गावश्च विजितास्त्वया
कुरवो निर्जिता यस्मात्संग्रामेऽमिततेजसः । एष तत्सर्वमकरोत्कुन्तीपुत्रो युधिष्ठिरः
अर्च्याः पूज्याश्च मान्याश्च प्रत्युत्थेयाश्च पाण्डवाः। अर्वार्हाश्चाभिवाद्याश्च प्राप्तकालं च मे मतम्