इमं नित्यपुमातिष्ठन्कुरवः किंकरास्तदा। सर्वे च नृप राजानं धनेश्वरमिवामराः
एष सर्वान्महीपालान्करमाहारयत्तदा। वैश्यानिव महाराज विवशान्स्ववशानपि
अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम्। उपजीवन्ति राजानमेनं सुचरितव्रताः
एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूश्चं वामनान् । पुत्रवत्पालयामास प्रजाधर्मेण चाभिभूः
एष धर्मे दमे चैव दाने सत्ये रतः सदा। महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः
श्रीमत्संपत्प्रभावेन तप्यते यस्य कौरवः । रगणः सह कर्णेन सौबलेन च वीर्यवान्
गुणा न शक्याः संख्यातुमेतस्यैव नरेश्वर। एष धर्मपरो नित्यमनृशंसः सुशीलवान्
एवं युक्तो महाराजा पाण्डवः पुरुषर्षभः । कथं नार्हति राजार्हमासनं पृथिवीपतिः
यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः। कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली
नकुलः सहदेवो वा द्रौपदी वा यशस्विनी । यदा ह्यक्षैर्जिता ह्येते नान्तरा श्रूयते कथा
य एष बललोऽभूत्ते सूपकारश्च ते नृप। एष भीमो महाभाग भीमवेगपराक्रमः
एष क्रोधवशान्हत्वा पर्वते गन्धमादने। सौगन्धिकानि पुष्पाणि कृष्णार्थे समुपानयत्
गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम्। व्याघ्रानृक्षान्गजांश्चैव हतवांश्च पुरे तव
हिडिम्बं च बकं चैव किर्मीरं च जटासुरम्। हत्वा निष्कण्टकं चक्रे अरण्यं सर्वतः शुभम्
यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तप। गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महाबलौ
शृङ्गारवेषारणौ रूपवन्तौ मनस्विनौ । नानारथसहस्राणां समर्थौ भरतर्षभौ
एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी । सैरन्ध्री द्रौपदी राजन्यकृते कीचका हताः
द्रुपदस्य प्रिया पुत्री धृष्ट्युम्नस्य चानुजा । अग्निकुण्डात्समुद्भूता द्रौपदी त्ववगम्यताम्
अस्त्रज्ञो दुर्लभः कश्चित्केवलं पृथिवीमनु। धनुर्भृतामतिश्रेष्ठः कौन्तेयोयं धनंजयः
एतेन खाण्डवं तस्य ह्यकामस्य शतक्रतोः। दग्धं नागवनं चैव सह नागैर्नराधिप
वर्षं च शरवर्षेण वारितं दुर्जयेन वै। करमाहारिताः सर्वे पार्थिवाः पृथिवीतले
स्त्रीवेषं कृतवानेष तव राजन्निवेशने। बृहन्नलेति यामाहुरर्जुनं जयतांवरम्
उषिताःस्म सुखं सर्वे तव राजन्निवेशने। अज्ञातवासे निभृता गर्भवास इव प्रजाः
यदाऽर्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः। पुनरेव च तान्पार्थान्दर्शयामास चोत्तरः
य एष जाम्बूनदशुद्धगौर- तनुर्महान्सिंह इव प्रवद्धः । प्रचण्डघोणः पृथुदीर्घनेत्र- स्ताम्रायताक्षः कुरुराज एषः
अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः। पृथ्वायतांसो गुरुदीर्घबाहु- र्वृकोदरः पश्यत पश्यतैनम्
यस्त्वेव पार्श्वेऽस्य महाधनुष्मा- ञ्श्यामो युवा वारणयूथपोपमः । सिंहोन्नतांसो गजराजगामी पद्मायताक्षोऽर्जुन एष वीरः
राज्ञः समीपे पुरुषोत्तमौ तु यमाविमौ विष्णुमहेन्द्रकलौ। मनुष्यलोके सकले समोऽस्ति ययोर्न रूपे न बले न शीले
आभ्यां तु पार्श्वे कनकोत्तमाङ्गी यैषा प्रभा मूर्तिमतीव गौरी। नीलोत्पलाभा सुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः
एवं निवेद्य तान्पार्थान्पाण्डवान्पञ्च भूपतेः। ततोऽर्जुनस्य वैराटिः कथयामास विक्रमम्