भवतः क्षमया राजन्त्सर्वे दोषाश्च नोऽभवन्। तं मात्स्यं सबलं हत्वा सपुत्रज्ञातिबान्धवम्। पश्चाच्चैव कुरून्सर्वान्हनिष्यामि न संशयः
भीमसेनश्च ये चान्ये तथैवेति तमब्रुवन्
तमब्रवीद्धर्मसुतो महात्मा क्षमी वदान्यः कुपितं च भीमम्। न प्रत्युपस्थास्यति चेत्सदारः प्रसादने सम्यगथास्तु वध्यः
न हन्तव्यो दुरात्माऽयं विराटश्चापि तेऽर्जुन
श्वः प्रभाते प्रवेक्ष्यामः सभां सिंहासनेष्वपि। राजवेषेण संयुक्ताः स्थानमस्व स्वलंकृताः
विराटो यदि तत्रस्थान्राजालङ्कारशोभितान्। राजलक्षणसंपन्नान्यदि तत्र न मंस्यते। पश्चाद्धन्यामहे पार्थ विराटं सहबान्धवम्
इतिकर्तव्यतां सर्वे मन्त्रयित्वा तु पाण्डवाः। न्यवसंश्चैव तां रात्रिं धर्मज्ञा धर्मवत्सलाः
सहपुत्रेण मात्स्यः स संप्रहृष्टो नराधिपः । तां रात्रिमवसत्प्रीतः संप्रहृष्टेन चेतसा
ततो द्वितीये दिवसे भ्रातरः पञ्च पाण्डवाः। स्नाताः शुक्लाम्बरधराः सर्वे सुचरितव्रताः
युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः। अभिपन्ना महाभागा भ्राजमाना महारथाः
विराटस्य सभां प्राप्य भूमिपालासनेषु ते । निषेदुः पावकप्रख्याः सत्रे धिष्ण्येष्विवाग्नयः
तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः। तस्यां रात्र्यां व्यतीतायां प्रातःकृत्यं समाप्य च
गोसुवर्णादिकं दत्त्वा ब्राह्मणेभ्यो यथाविधि । आजगाम सभां राजा उत्तरेण सह प्रभो
स तान्दृष्ट्वा महासत्वाञ्ज्वलतः पावकानिव। राजवेषानुपादाय पार्थिवो विस्मितोऽभवत्
किमिदं को विधिस्त्वेष भयार्त इव पार्थिवः। पुरुषप्रवरान्दृष्ट्वा विषादमगमन्नृपः
अथ मात्स्योऽब्रवीत्कङ्खं देवराजमिव स्थितम् । मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम्
स किलाक्षनिवापस्त्वं सभास्तारो मया कृतः। अथ राजासने कस्मादुपविष्टोऽस्यलंकृतः
परिहासेच्छया राज्ञो विराटस्य निशम्य तत्। स्मयमानोऽब्रवीद्वाक्यमर्जुनः परवीरहा
इन्द्रस्यार्धासनं राजन्नयमारोढुमर्हति। ब्रह्मण्यः श्रुतवांस्त्यागी सर्वलोकाभिपूजितः
एष विग्रहवान्धर्म एष वीर्यवतां वरः। एष बुद्ध्याधिको लोके तपसां च परायणम्
एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे। न चैवान्यः पुमान्वेत्ति न वेत्स्यति कदाचन
न देवा नासुराः केचिन्न मनुष्या न राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः
दीर्घदर्शी महातेजाः पारैजानपदप्रियः। पाण्डवानामतिरथो यज्ञधर्मपरो वशी
महर्षिकल्पो राजर्षिः सर्वलोकेषु विश्रुतः । बलवान्धृतिमान्दक्षः सत्यवादी जितेन्द्रियः
धनैश्च संचयैश्चैव शक्रवैश्रवणोपमः । यथा मनुर्महातेजा लोकानां परिरक्षिता । एवमेव महातेजाः प्रजानुग्रहकारकः
अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः । यस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा
संसरन्ति दिशः सर्वा यशसोस्य गभस्तयः । उदितस्येव सूर्यस्य तेजसोऽनुगभस्तयः
एनं त्रिंशत्सहस्राणि कुञ्जराणां तरस्विनाम् । अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून्
त्रिंशच्चैव सहस्राणि रथानां रथिनां वरम्। सदश्वैरुपसंपन्नाः पृष्ठतोऽनुययुस्तदा
वाजिनां च शतं राजन्त्सहस्राण्ययुतानि च। इममष्टशतं सूताः सुमृष्टमणिकुण्डलाः। तुष्टुवुर्मागधैः सार्धं पुरा शक्रमिवर्षयः