द्वाभ्यां शराभ्यां विद्ध्वाऽथ तथाऽऽचार्यसुतं रणे। चापं छित्त्वा विकर्णस्य नीले चादत्त वाससी
क्व स वीरो महाबाहुर्देवपुत्रो महायशाः। यो ममामोचयत्पुत्रं कुरुभिर्ग्रस्तमाहवे
इच्छामि तममित्रघ्नं दुष्टुमर्चितुमेव च। येन मे त्वं च गावश्च मोक्षिता देवसूनुना
तस्मै दास्यामि तां पुत्रीं ग्रामांश्चैव तु हाटकान्। स्फुरितं कटिसूत्रं च स्त्रीसहस्रशतानि च
अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान्। अद्य श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति
एवमाख्यायमानस्तु छन्नं सत्रेण पाण्डवम्। वसन्तं तं तु नाज्ञासीद्विराटः पार्थमर्जुनम्
ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना। सह पुत्रेण मात्स्यस्य मन्त्रयित्वा धनंजयः
इत्येवं ब्रूहि राजानं विराटं समुपस्थितम्। इत्युक्त्वा सहसा पार्थः प्रविश्यान्तःपुरं शुभम्। ददौ वस्त्राणि रन्तानि विराटदुहितुः स्वयम्
उत्तरा तु महार्हाणि वस्त्राण्याभरणानि च। प्रगृह्य तानि सर्वाणि प्रीता सानुचराऽभवत्
प्रदाय वस्त्राणि किरीटमाली विराटगेहे मुदितः सखीभ्यः । कृत्वा महर्तर्म तदाऽऽजिमध्ये दिदृक्षया सोऽभिजगाम पार्थम्
तं प्रेक्षमाणस्त्वथ धर्मराजं पप्रच्छ पार्थोऽथ स भीमसेनम्। किं धर्मराजो हि यथापुरं मां मुखं प्रतिच्छाद्य न चाह किंचित्
तमेवमुक्त्वा परिशङ्कमानं दृष्ट्वाऽर्जुनं भीमसेनं च राजा। तदाऽब्रवीत्तावभिवीक्ष्य राज- न्युधिष्ठिरस्तत्परिमृज्य रक्तम्
मन्युं नियच्छन्नुपविष्ट आसम्
शुभार्ह राष्ट्रं न खिलीकृतं भवे- द्वयं तु यस्मिन्सुखिनोऽभवाम। क्रुद्धे तु वीरे त्वयि चाप्रतीते राजा विराटो न लभेत शर्म
अजानता तेन च शौर्यमाजौ छन्नस्य सत्रेण बलं च पार्थ। इदं विराटेन मयि प्रयुक्तं त्वां वीक्षमाणो न गतोस्मि हर्षम्
तेनाप्रमेयेन महाबलेन तस्मिंस्तथोक्ते शममास्थितेन। तं भीमसेनो बलवानमर्षी धनंजयं क्रुद्धमुवाच वाक्यम्
न पार्थ नित्यं क्षमकालमाह बृहस्पतिर्ज्ञानवतां वरिष्ठः । क्षमीह सर्वैः परिभूयतेसौ यथा भुडङ्गो विषवीर्यहीनः
विराटमद्यैव निहत्य शीघ्रं सपुत्रपौत्रं सकुलं ससैन्यम्। योक्ष्यामहे धर्मसुतं च राज्ये अद्यैव शीघ्रं त्वरिरेष मात्स्यः
अनेन पाञ्चालसुताऽथ कृष्णा उपेक्षिता कीचकेनाभियुक्ता। तस्मादयं नार्हति राजशब्दं राजा भव त्वं नृप पार्थवीर्यात्
राजा कुरूणां च युधिष्ठिरोऽयं मात्स्येषु राजा भवतु प्रवीरः तं मात्स्यदेहं शतधा भिनद्मि पूर्णोदकं कुम्भमिवाश्मनीह
भवतः क्षमया राजन्त्सर्वे दोषाश्च नोऽभवन्। तं मात्स्यं सबलं हत्वा सपुत्रज्ञातिबान्धवम्। पश्चाच्चैव कुरून्सर्वान्हनिष्यामि न संशयः
भीमसेनश्च ये चान्ये तथैवेति तमब्रुवन्
तमब्रवीद्धर्मसुतो महात्मा क्षमी वदान्यः कुपितं च भीमम्। न प्रत्युपस्थास्यति चेत्सदारः प्रसादने सम्यगथास्तु वध्यः
न हन्तव्यो दुरात्माऽयं विराटश्चापि तेऽर्जुन
श्वः प्रभाते प्रवेक्ष्यामः सभां सिंहासनेष्वपि। राजवेषेण संयुक्ताः स्थानमस्व स्वलंकृताः
विराटो यदि तत्रस्थान्राजालङ्कारशोभितान्। राजलक्षणसंपन्नान्यदि तत्र न मंस्यते। पश्चाद्धन्यामहे पार्थ विराटं सहबान्धवम्
इतिकर्तव्यतां सर्वे मन्त्रयित्वा तु पाण्डवाः। न्यवसंश्चैव तां रात्रिं धर्मज्ञा धर्मवत्सलाः
सहपुत्रेण मात्स्यः स संप्रहृष्टो नराधिपः । तां रात्रिमवसत्प्रीतः संप्रहृष्टेन चेतसा
ततो द्वितीये दिवसे भ्रातरः पञ्च पाण्डवाः। स्नाताः शुक्लाम्बरधराः सर्वे सुचरितव्रताः
युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः। अभिपन्ना महाभागा भ्राजमाना महारथाः